________________
२१५
अलङ्कारसूत्रं
(संसृष्टिअत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः सन्धिः । भावशबलता यथा"काकार्य शशलक्ष्मणः क च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः! स्वास्थ्यमुपेहि कः खलु युवा धन्योऽधरं पा
स्यति ॥" अत्र वितर्कोत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता ॥
तदेते चित्तवृत्तिगतत्वेनालङ्कारा लक्षिताः। अधुनैषां सर्वेषामलङ्काराणां संश्लेषसमुत्थापितमलङ्कारद्वयमुच्यते । तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन वेति द्विधा । संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः। समवायन्यायो यत्र तस्यैवानुत्कटत्वेन वर्तनम् । तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायः । इतरत्र तु क्षीरनीरसादृश्यम् । क्रमेण तदुच्यते -
एषां तिलतण्डुलन्यायेन मिश्रत्वे संसृष्टिः ॥ ८४ ॥ व्यमूढ इत्यनेन द्योतितः । अत्र वितर्केत्यादि । काकार्य शशलक्ष्मणः क्क च कुलमित्यादिवागारम्भानुभावसूचितस्य वितर्कादेर्भूयोऽपि दृश्येत सेत्यादिवाचिकानुभावसूचितेनौत्सुक्यादिना उपमृदितत्वात् शबलता ॥
तदेत इति । रसवत्प्रभृतयो भावशबलतापर्यन्ताः। एतच्चैतेषां मिथः सम्बन्धख्यापनायोक्तम् । तस्यैव भेदस्यैव । तदा ते इत्यत्र तच्छब्देन युग
१. 'ख्यभा', २. 'तविषयत्वे', ३. 'ना स', ४. 'चे' क. ख. पाठः. ५ 'श्यम् । ए' क. पाठः. ६. 'चैषां' ख. पाठः.