________________
निरूपणम् ]
सव्याख्यालङ्कार सर्वस्वोपेतम् ।
निर्दिष्टत्वात् । अथ च संसृष्टिसङ्कवैलक्षण्येनैते सर्वेऽलङ्काराः पृथक् केवलत्वेन, अलङ्कारा इति सर्वालङ्कारशेषत्वेनोक्तम् । संसृष्टिसङ्करयोर्हि संपृक्ततया सिद्धानामलङ्काराणां स्थितिः, तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावोदयो यथा - “एकस्मिञ्छने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । संवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥” अत्रौत्सुक्यस्योदयः । भावसन्धिर्यथा “वामेन नारीनयनाश्रुधारां कृपाणधारामथ दक्षिणेन । उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ॥” वव्यञ्जितत्वात् प्रेयसस्तत्तद्भावाद्यभिव्यञ्जितस्य रसवशेन रसवतो वालङ्कारत्वं सुवर्चेम् । तथापि कविसंरम्भगोचरानुदयादीन् विशेषानाश्रित्यालङ्कारान्तरत्वेन निर्दिश्यन्त इत्यर्थः । भावोदय भावसन्धिभावशबलताश्वेत्येतावत्येव निर्देष्टव्ये एते पृथगित्यादिवचनस्य प्रयोजनमाह - एतत्प्रतिपादनं चेत्यादि । एते पृथगित्यादियोगविभागेनार्थान्तरप्रतिपादनलक्षणं प्रयोजनान्तरमप्यस्तीत्याह - अथ चेत्यादिना । एते सर्व इति । उक्तलक्षणाः पुनरुक्तवदाभासादय एतत्पर्यन्ताः । केवलत्वेनालङ्कारान्तरासम्मिश्रुत्वेन । सर्वालङ्कारेति । न तु भावोदयादिमात्रँशेषत्वेन । संसृष्टी - त्यादि । पृथक्सिद्धरूपाणामलङ्कारान्तराणां सम्पृक्ततया संसृष्टिसङ्करयोः स्थितिरित्यर्थः । औत्सुक्यस्योदय इति । विशिष्टस्य वीक्षणस्य तदनुभावत्वात् । उत्पुंसयन् उन्मार्जयन् । अत्राश्रुधाराकृपाणधारोन्मार्जनलक्षणानुभावव्यब्जितयोर्नायिकालम्बनस्नेहरणविषयौत्सुक्ययोः स्पर्धिभावः कर्त
-
-
२१३
१. ‘सङ्करसंसृष्टिवै', २. 'आ', ३ मुग्धः सु' क. ख. पाठः. ४. 'चनम् । त' क. पाठः. ५. 'त्येवं नि' ख. पाठ:. ६. 'श्रितत्वे' ख. ग. पाठः. ७. 'त्रविशे'
क. ख. पाठ:.