Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
२
२४. प्रस्तुतानामप्रस्तुतानां च दीपकम् ।
२५. वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तूपमा ।
२६. तस्यापि बिम्बप्रतिबिम्बतया निर्देशे शन्तः ।
२७. सम्भवतासम्भवता वा वस्तुसम्बन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना ।
२८. भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये काव्यतिरेकः ।
२९. उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरा सार्थसम्बन्धे सहोतिः ।
३०. विना किञ्चिदन्यस्य सदसत्वाभावो विनोक्तिः । ३१. विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः । ३२. विशेषणसाभिप्रायत्वं परिकरः ।
३३. विशेष्यस्यापि साम्ये द्वयोर्वोपादाने श्लेषः ।
३४. अप्रस्तुतात् सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा ।
३५. सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टवकृत समर्थनमर्थान्तरन्यासः ।
३६. गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् ।
३७. स्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः । ३८. उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषमतिपत्यर्थ निषेधाभास आक्षेपः ।
३९. अनिष्टविध्याभासश्च ।
४०. विरुद्धाभासत्वं विरोधः ।
४१. कारणाभावे कार्यस्योत्पत्तिर्विभावना |
४२. कारणसामग्रथे कार्यानुत्पत्तिर्विशेषोक्तिः ।
४३. कार्यकारणयोः समकालत्वे पौर्वापर्यविपर्यये चातिश
योक्तिः ः । ४४. तयोर्विभिन्नदेशत्वेऽसङ्गतिः ।

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280