Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
४५. विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसङ्घटना च विषमम् । ४६. तद्विपर्ययः समम् । ४७. स्वविपरीतफलनिष्पत्तये प्रयत्रो विचित्रम् । ४८. आश्रयाश्रयिणोरनानुरूप्यमधिकम् । ४९. परस्परं क्रियाजननेऽन्योन्यम् । ५०. अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं च
विशेषः। ५१. यथा साधितस्य तथैवान्येनान्यथाकरण व्याघातः । ५२. सौकर्येण कार्यविरुद्धक्रिया च ।। ५३. पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला । ५४. यथापूर्व परस्य विशेषणतया स्थापनेऽपोहने वैकावली । ५५. पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् । ५६. उत्तरोत्तरमुत्कर्षः सारः। ५७. हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गम् । ५८. साध्यसाधननिर्देशोऽनुमानम् । ५९. उद्दिष्टानामर्थानां क्रमेणानुनिर्देशो यथासङ्खयम् । ६०. एकमनेकसिन्ननेकमेकसिन् वा क्रमेण पर्यायः । ६१. समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । ६२. एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसङ्खथा । ६३. दण्डापूपिकयार्थान्तरापतनमापत्तिः। ६४. तुल्यबलविरोधो विकल्पः । ६५. गुणक्रियायोगपद्यं समुच्चयः। ६६. एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च । ६७. कारणान्तरयोगात् कार्यस्य सुकरत्वं समाधिः। ६८. प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम् ।
उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् । ७०. वस्तुना वस्त्वन्तरनिगूहनं निमीलितम् । ७१. प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् । ७२. स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः ।
६९.

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280