Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 241
________________ 'निरूपणम् ] सष्याख्यालङ्कारसर्वस्वोपेतम् । पेक्षित्वेनाङ्गाङ्गिभावेसकर इति । एतत् तु न सम्यगावर्जकम् । शब्दालङ्कारयोः शब्दवदुपकार्योपकारकत्वाभावेनाङ्गाङ्गिभावाभावात् । शब्दालङ्कारसंसृष्टिस्त्वत्र श्रेयसी । यथोदाहृतं प्राक् । यहा, अत्र शब्दालङ्कारद्वयमेकवाचकानुप्रविष्टमिति तृतीयः सङ्करो ज्ञेयः । एवमेकैः प्रकारश्चचितः । द्वितीयप्रकारस्तु सन्देहसङ्कराख्यः, यत्रो भयोरेकतरस्य साधकं प्रमाणं नास्ति बाधकं व, तत्र न्यायप्राप्तः संशय इति सन्देहसङ्कराख्यालङ्कारः । यथा - "यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा उत्क स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तंत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥” अत्र विभावनाविशेषोक्त्योः सङ्करः । तथाहि ण्ठाकारणाभावेऽप्युत्कण्ठाया उत्पत्तौ विभावना | संच कारणाभावो यः कौमारहर इत्यादिना कारणविरुद्धमुखेन प्रतिपादितैः । तथा यः कौमारहर इत्यादावनुत्कण्ठाकारणसद्भावेऽप्यनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः खड्गाथाकृतिहेतुत्वस्य दुष्करवैचित्र्योपलक्षणपरत्वाच्चित्रेऽन्तर्भावः । शदवदिति । यथा शब्दावर्थं प्रति गुणीभूतत्वादन्योन्यमुपकार्योपकारकभावं नानुभवतस्तद्वदित्यर्थः । प्रागिति । कुसुमसौरभेत्यादौ । एकः प्रकारः अङ्गाङ्गिभावलक्षणः । यः कौमारेत्यादि । विशेषोक्तौ प्रसङ्गोक्तस्यै - 1 - २२१ १. 'वः स' ग. पाठ: २. पूर्वम् । य ३. 'यस' क. ख. पाठः ४. 'क' मूलपाठः, ५. 'त्रान्यतरपरिग्रहे सा', ६. 'वा प्रमाणं न विद्यते त', ँ, 'चौर्यसु', ८. 'परिवृते चे', ९. 'सन्देहः । त' क. ख. पाठः. १०. ग. पाठः ११. 'तः । कौ' क. ख. पाठः . नसौ' क. पाठः • ' तथा का' १३. 'वद १२. 'धनु' ग. पाठः.

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280