Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 239
________________ ____२१९ निरूपणम् सव्याख्यालङ्कारसर्वस्वोपेतम् । अनुग्राहिकाः । तद्बलेन तस्याः समुत्थानात् । सापि समुस्थापिता समुत्थापकानां चमत्कारकारितानिबन्धनमित्यङ्गाङ्गिभावः । यथा वा"त्रयीमयोऽपि प्रथितो जगत्सु यद् वारुणीं प्रत्यगमद् विवस्वान् । मन्येऽस्तशैलात् पतितोऽत . __ एव विवेश शुबै बडवाग्निमध्यम् ॥" अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ द्वावलङ्कारौ । तदनुगृहीतो च द्वितीयेऽधै मन्येपदप्रकाशिता द्वितय्युत्प्रेक्षा । अतश्चोत्राङ्गाङ्गिभावः । तथाहि-अत्र यत् कारणमुत्प्रेक्ष्यते, तत्र विरोधश्लेषानुप्रवेशः, यच्चात्र कार्यमुत्प्रेक्षानिमित्तं, तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्यान्यथास्थितावप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ झयौ । तेनात्राङ्गाङ्गिभावेसङ्करः । न च विरोधप्रतिमोत्पत्तिहेतौ तद्बलेन उपमातिशयोक्तिबलेन । सापीत्यादिना नियमेन कस्यचिदङ्गत्वे कस्यचिदङ्गित्वे चाङ्गिनैवालङ्कारव्यपदेशः स्यात् , न तु सङ्कर इत्युभयोरपि परस्परं प्रत्यङ्गभावश्चाङ्गिभावश्चेतरेतराश्रयपरिहाराय विषयभेदेनीवगन्तव्य इ. त्याह । तत्रोत्प्रेक्षायाः प्रत्युत्थानेऽङ्गमुपमादिः । उपमादेश्चमत्कारकारित्वे उत्प्रेक्षाङ्गम् । श्लेषलक्षणावसरे तद्बलाबलनिरूपणायोक्तमेवार्थमिदानी सङ्करप्रदर्शनाय संक्षिप्याह-त्रयीमयोऽपीत्यादि । एतच्च तत्रैव वितत्य व्याख्यातम् । द्वितीति । हेतुफलोत्प्रेक्षाभेदात् । अतश्च अनुगृहीतत्वादेव । तथाह्यत्रेत्यादिनोत्प्रेक्षायाः श्लेषेण श्लेषविरोधाभ्यां वाङ्गाङ्गिभावं प्रतिपाद्य तस्या एवातिशयोक्त्युत्थापकेन श्लेषेण सह तं प्रतिपादयति- यच्चात्रेत्यादिना । अङ्गाङ्गिभावसङ्कर इति । पूर्ववद् विरोधश्लेषयोः श्लेषातिशयोक्त्योश्चो १. 'के', २. ‘ता द्वि', ३. 'श्वाङ्गा' ग. पाठः. ४. 'भ्यामभे' क. ख. पाठः, ५. 'वः स' ग. पाठः. ६. 'न वाव' ख. ग. पाठः.

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280