Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
निरूपणम् ] सव्याख्यालङ्कारसर्वस्वोपेतम् । . २१७ अत्रोपमानुप्रासयोः संसृष्टिः । पादाम्बुजमित्यत्र छुपमायां मजीरशिञ्जितयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः पारिशेष्यादुपमा प्रसाधेयति । तदेषा त्रिविधा संसृष्टिनिर्णीता ॥ . .. अधुना क्षीरनीरन्यायाश्रयेण तु सङ्करलक्षणमुच्यते---
क्षीरनीरन्यायेन तु सङ्करः ॥ ८५॥ शब्दार्थालङ्कारसंसृष्टिः । उपमानुप्रासयोरिति । पादाम्बुजमित्यत्र लुप्तधर्मद्योतकसमानधर्मायाः समासोपमायाः, मञ्जुमञ्जीरेत्यत्रैक| समुदायसादृश्यलक्षणस्य वृत्त्यनुप्रासस्योत्कटतया प्रतिभासात् । पाद एवाम्बुजम् अम्बुजमिव पाद इति सन्देहसङ्करो नाशङ्कनीय इत्याह-पादाम्बुजमित्यत्र हीति । उभयसंसृष्टिवत् पूर्वमुभयगतत्वेनेत्येतावतैव शब्दार्थालङ्कारगतत्वेनेत्यस्य सिद्धावप्युभयालङ्कारगतत्वेनेति वचनमुभयालङ्कारत्वेन वक्ष्यमाणानां लाटानुप्रासादीनामपि संसृष्टिर्भवतीति ज्ञापनार्थम् । सा यथा
द्विषन्मृगमृगाधिपं भुवनजाड्यवैश्वानर__ प्रतापमुपवर्णयेद् यदुपतिं कथं मादृशः । तिरस्कृतपुलोमजिद्गुरुधिया धियाभ्यर्हितं
परापदपरापदस्फुटसरोजकान्तेक्षणम् ॥ अत्र द्विषन्मृगमृगेति लाटानुप्रासस्याश्लिष्टपरम्परितेन सहैकवाचकानुप्रविष्टस्य धिया धियेति सजातीयेन भुवनजाड्यवैश्वानरप्रतापमिति श्लिष्टपरम्परितेन पराप(दमि ? दि)त्यादौ परसम्बन्ध्यापल्लक्षणेन तदपलापप्रदत्वात्मना चार्थेन परापच्छब्दस्य चापराप(च्छ ? दश)ब्दस्य चैवान्वयाद् यमकयोस्तु द्वयोरपि परापदशब्दयोरानर्थक्यादुभयानर्थक्यविशिष्टयमकलुप्त(धर्म ?)द्योतकसमासोपमालक्षणशब्दार्थालङ्कारवृत्तिना संसृष्टयलङ्कारेण (वा?) विजातीयेन च संसृष्टिः ॥
१. 'या', २. 'द', ३. 'त्रिधा' क. ख. पाठः. ४. 'स्थ' ख. ग. पाटः, ५. 'g' क. पाठः.
DD

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280