Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 236
________________ अलङ्कारसूत्रं [ संसृष्टि अत्रानुप्रासयम कयोर्विजातीययोः संसृष्टिः । अत्रैव लकलोलकलो कलोलकलोल इति सजातीययोर्यमकयोः संसृष्टिः । अर्थालङ्कारसंसृष्टिर्यथा " देवि ! क्षपा गलति चक्षुरमन्दतारमुन्मीलयाशु नलिनीव सभृङ्गमब्जम् । एष त्वदाननरुचेव विलुण्ट्यमानः २१६ ― पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ॥ " अत्र विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः । “लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥" अत्रोत्प्रेक्षयोः सजातीययोरुत्प्रेक्षोपमयोर्विजातीययोश्च संसृष्टिः । उभयसंसृष्टिर्यथा - "आनन्दमन्थरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय मञ्जुमञ्जीरशिञ्जितमनोहरमम्बिकायाः || ” । व्यवहरति, क्षीरनीरवदस्फुटभेदान् सङ्कीर्णा इति । अनुप्रासयमकयोरिति । कुसुमसौरभेत्यादौ छेकानुप्रासस्य विद्यमानत्वात् । सजातीययोरिति । यमकत्वेन निरर्थकत्वेन च । उपमोत्प्रेक्षयोरिति । पूर्वार्धे - पाण्ड्योऽयमित्यादिवद् बिम्बप्रतिबिम्बभावोपलक्षित साधारणधर्मवत्युपमा । उत्तरार्धेऽम्बरत्यागनिमित्ता क्रियाहेतूत्प्रेक्षा । सजातीययोरिति । पूर्वार्धेऽनुपात्तनिमित्तयोः क्रियास्वरूपोत्प्रेक्षयोः, उत्तरार्धे ऐकरूप्यनिर्दिष्टसाधारणधर्माया उपमाया विद्यमानत्वात् ! पूर्वनिर्दिष्टयोरुत्प्रेक्षयोर्द्वित्वेऽपि जातिपरत्वेनैकत्वस्य विवक्षणादुपमोत्प्रेक्षयोरिति द्विवचनम् । उभयसंसृष्टिः

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280