Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
[ भावोदय - सन्धि-शबलता -
२१२
अलङ्कारसूत्रं
अत्रे कोपस्य प्रशः । एवमन्यत्राप्युदाहार्यम् । “तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते व तदित्युदीर्य सहसा तत् सम्प्रमाष्टुं मया साश्लिष्टा रभसेन तत्सुखवशात् तुन्व्यापि तद्विस्मृतम् ॥” “एकस्मिञ्छयने पराङ्मुखतया वीतोत्तरं ताम्यतो
रन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । दम्पत्योः शनकैरपाङ्गवलनामिश्रीभवच्चक्षुषो
भग्नो मानकलिः सहासरभसव्यासक्तकण्ठग्रहः ॥" अत्रेर्ष्याकोधात्मनो मानस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् ॥ भावोदय सन्धिशबलताश्चैते पृथगलङ्काराः ॥ ८३ ॥
भावस्योक्तरूपस्योदय उद्गमावस्था, सन्धिर्द्वयोर्विरुद्धयोः स्पर्धिभावेनोपनिबन्धः, शबलता बहूनां पूर्वपूर्वोपमर्दनेनोपनिबन्धः । एते च पृथग रसवदादिभ्यो भिन्नत्वेनालङ्काराः । एतत्प्रतिपादनं चोटादिभिरेषां पृथगलङ्कारत्वेन नौचित्येन प्रवृत्तौ । अतो रसाभासभावाभासयोर्द्वयोरप्येतदुदाहरणम् । अत्र कोपस्येति । कोपः रौद्रैस्थायिभावः क्रोधः, तस्य च रसत्वेनानभिव्यक्तौ व्यभिचारित्वाभावाङ्गीकाराद् भावत्वमाश्रित्य तत्प्रशमो भावप्रशमत्वेनोदाहृतः । एवमन्यत्रापि स्थायिभावानां शान्त्यादिवचने भावशान्त्यादित्वं द्रष्टव्यम् । अत्रेर्येत्यादि । पूर्वत्रोदाहरणे नायिकाश्रयस्येयमानस्य, उत्तरत्रोभयाश्रयस्य प्रणयक्रोधस्वरूपस्य ॥
1
सूत्रे पृथगित्यस्यावध्यनिर्देशादवधिं दर्शयति – रसवदादिभ्य इति । भिन्नत्वेनेति । यद्यपि भावोदयादिषु तत्तद्भावानां स्वानुभावविभा१. 'स्य', २. ‘मः। त', ३. 'च', ४. 'वप', ५. 'देनोप' क. ख. पाठः. ६. 'त्यप्र' ख. ग. पाठः ७ 'द्रस्य स्था' ग. पाठः

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280