Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore

View full book text
Previous | Next

Page 233
________________ निरूपणम् ] सव्याख्यालङ्कार सर्वस्वोपेतम् । निर्दिष्टत्वात् । अथ च संसृष्टिसङ्कवैलक्षण्येनैते सर्वेऽलङ्काराः पृथक् केवलत्वेन, अलङ्कारा इति सर्वालङ्कारशेषत्वेनोक्तम् । संसृष्टिसङ्करयोर्हि संपृक्ततया सिद्धानामलङ्काराणां स्थितिः, तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावोदयो यथा - “एकस्मिञ्छने विपक्षरमणीनामग्रहे मुग्धया सद्यः कोपपराङ्मुखग्लपितया चाटूनि कुर्वन्नपि । संवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत् सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥” अत्रौत्सुक्यस्योदयः । भावसन्धिर्यथा “वामेन नारीनयनाश्रुधारां कृपाणधारामथ दक्षिणेन । उत्पुंसयन्नेकतरः करेण कर्तव्यमूढः सुभटो बभूव ॥” वव्यञ्जितत्वात् प्रेयसस्तत्तद्भावाद्यभिव्यञ्जितस्य रसवशेन रसवतो वालङ्कारत्वं सुवर्चेम् । तथापि कविसंरम्भगोचरानुदयादीन् विशेषानाश्रित्यालङ्कारान्तरत्वेन निर्दिश्यन्त इत्यर्थः । भावोदय भावसन्धिभावशबलताश्वेत्येतावत्येव निर्देष्टव्ये एते पृथगित्यादिवचनस्य प्रयोजनमाह - एतत्प्रतिपादनं चेत्यादि । एते पृथगित्यादियोगविभागेनार्थान्तरप्रतिपादनलक्षणं प्रयोजनान्तरमप्यस्तीत्याह - अथ चेत्यादिना । एते सर्व इति । उक्तलक्षणाः पुनरुक्तवदाभासादय एतत्पर्यन्ताः । केवलत्वेनालङ्कारान्तरासम्मिश्रुत्वेन । सर्वालङ्कारेति । न तु भावोदयादिमात्रँशेषत्वेन । संसृष्टी - त्यादि । पृथक्सिद्धरूपाणामलङ्कारान्तराणां सम्पृक्ततया संसृष्टिसङ्करयोः स्थितिरित्यर्थः । औत्सुक्यस्योदय इति । विशिष्टस्य वीक्षणस्य तदनुभावत्वात् । उत्पुंसयन् उन्मार्जयन् । अत्राश्रुधाराकृपाणधारोन्मार्जनलक्षणानुभावव्यब्जितयोर्नायिकालम्बनस्नेहरणविषयौत्सुक्ययोः स्पर्धिभावः कर्त - - २१३ १. ‘सङ्करसंसृष्टिवै', २. 'आ', ३ मुग्धः सु' क. ख. पाठः. ४. 'चनम् । त' क. पाठः. ५. 'त्येवं नि' ख. पाठ:. ६. 'श्रितत्वे' ख. ग. पाठः. ७. 'त्रविशे' क. ख. पाठ:.

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280