________________
निरूपणम् ]
सव्याख्यालङ्कारसर्वस्वोपेतम् ।
द्वितीयः पर्यायः । नन्वत्र समुच्चयालङ्कारो वक्ष्यत इत्येतदर्थमपि क्रमेणेति योज्यम् । अत एव 'गुणक्रियायौगपद्यं समुच्चय' इति समुच्चयलक्षणे यौगपद्यग्रहणम् । अत एव क्रमाश्रयणात् पर्याय इत्यन्वर्थमभिधानम् । विनिमयाभावात् परिवृत्तिवैलक्षण्यम् । तस्यां हि विनिमयो लक्षणत्वेन वक्ष्यते । तत्रानेकोऽसंहतरूपः संहतरूपचेति द्विविधः । तत्र द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः । क्रमेणोदाहरणं - " नन्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ
कण्ठेऽधुना वससि वाचि पुनः खलानाम् ॥”
१६९
मित्युक्तम् । एतदर्थमपीति । अपिशब्देन द्वितीय पर्यायेऽपि क्रमेणेत्येतलक्षणानुप्रवेशित्वेन घटनीयमित्याह । अत एव पर्यायव्यावृत्तिहेतोरेव । अन्वर्थमिति । यौगपद्याभावलक्षणस्यार्थस्यानुगमात् । नन्वत्र कस्यचि - दपगमे कस्यचिदुपगमो भवति । परिवृत्तावपि 'किमित्यपास्ये’त्यादावामरणस्य वल्कलादीनामनेकेषामाधेयानां पार्वतीलक्षण एकस्मिन्नाधारे क्रमेण वृत्तिर्दृश्यते । तदस्य तस्याः को भेद इत्याशङ्कयाह -विनिमयाभावादिति । विनिमयो नाम कस्यचित् परित्यागेन कस्यचित् स्वीकारः । तत्र च 'निशास्वि' त्यादावभिसारिकादिपरित्यागेन शिवादिस्वीकार इत्येवंरूपस्यार्थस्याविवक्षितत्वाद् विनिमयाभावः । अनेकः आधाराधेयलक्षणः । एषां चासंहतसंहतत्वे उपात्तद्रव्यविशेषाधाराधेयत्वव्यतिरेकेणैकोपाध्यनवच्छेदावच्छेदाभ्यां द्रष्टव्ये | आधाराधेयगतमिति । प्रथमे पर्याये आधारगतं द्वितीये आधेयगतम् । आश्रयस्थितिराश्रयमर्यादा । उत्तरोत्तरविशिष्टपदा यथोत्तरविशिष्टस्थाना । अत्र हृदयकण्ठवाचामुपर्युपरि वृत्तित्वादुत्तरोत्तरवै
-
१. 'रो भे', २. 'ण यथा - 'न' क. ख. पाठः. ३. 'णानेको' ख. पाठ:.
X