SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १.७० अलङ्कारसूत्रं " निसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् । कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥” "निशासु भाखत्कलनूपुराणां यः सञ्चरोऽभूदभिसारिकाणाम् । पर्याय नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः ॥” "यत्रैव मुग्धेति कृशोदरीति प्रियेति कान्तेति महोत्सवोऽभूत् । तत्रैव दैवाद् वदने मदीये पत्नीति भार्येति गिरश्वरन्ति ॥” अत्र कालकूटमेकमनेकस्मिन्नसंहते आश्रये क्रमेण स्थितिमन्निबद्धम् । करश्चैकोऽनेकस्मिन् संहते क्रमवान् । अधरकन्दुकयोर्निवृत्त्यपादानतया संहतत्वेन स्थितत्वात् । अभिसारिकाः शिवाश्वानेकस्वभावा असंहतरूपा एकस्मिन्नाश्रये शिष्ट्यम् । निस्सृष्टरागादित्यादि । एतत् परिवृत्त्युदाहरणत्वेन दर्शयतो भामहोद्भटस्यास्य च विनिमयविवक्षाविवक्षे प्रयोजिके । असंहत इति । कालकूटाधारत्वव्यतिरेकेणैकोपाधिक्रोडीकाराभावा हृदयकण्ठवाचामसंहतत्वम् । क्रमेण स्थितिमदिति । प्रागथाधुनाशब्दैः क्रमस्यावगमितत्वात् । निवृत्त्यैपादानतयेति । कराधारत्वमन्तरेणापि निवृत्त्यैपादानत्वलक्षणैकोषाध्यवच्छिन्नत्वात् । एकस्य च करस्य युगपदधरकन्दुकयोरवस्थानासंभवात् क्रमस्थितिः । अनेकस्वभावा इत्य संहतरूपत्वे हेतुकथनम् । शिवाना१. ‘णानेको’, २., ३. 'यु' क. पाठः. 1 1 -
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy