Book Title: Alankar Sutra
Author(s): K Sambashiv Shastri
Publisher: Government of Travancore
View full book text
________________
अलङ्कारसूत्रं
[समुचम
कश्चित् समुच्चीयमानः शोभनोऽन्यस्त्वशोभन इति सदसधोगो व्याख्येयः । ननु नृपाङ्कणगतः खल इत्यशोभनः अन्ये तु शोभना इति कथं न समुच्चीयमानस्ये सतस्तादृशेनासता योगः। नैतत् । नृपाङ्कणगतः खल इति प्रत्युत प्रक्रमभेदाद् दुष्टमेव, नैतु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् । अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्टमेवेत्युक्तम् । प्रकृते तु नृपाङ्कणगतत्वेने शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थ - नीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तं, विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यमेतत् । ननु 'दुर्वाराः स्मरमार्गणा' इत्यत्रोक्तोदाहरणवत् कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा । त्वेन च सदसद्भिः । सदसद्योग इत्यत्र सर्वेषामेव समुच्चयविषयाणां सदसत्वमिष्टं, न तु केषाञ्चित् सत्त्वं, केषाञ्चिदसत्त्वमित्याह - न त्वत्रेति । अस्य व्याख्यानस्योदाहरणे वैघट्यमाशङ्कय परिहरति — नन्वित्यादिना । अन्यैरिति । काव्यप्रकाशकारादिभिः । सहचरभिन्न इति । स्वतः शोभनैरुपाधिवशादशोभनैः शशिप्रभृतिभिः खलस्य भिन्नत्वात् । एवं तर्हि नृपाङ्कणगतः खल इत्येतदनुदाहरणमेवेत्याशङ्कय, उदाहरणं घटत एव, प्रक्रमविरोधो दुष्परिहर इलाह- प्रकृते त्विति । न निरवद्यमिति । निरवद्यं तु यथा -
-
सूक्तिस्त्वद्गुणवर्णनेन रहिता रत्नं त्वदन्यैर्धृतं `रम्यं वस्तु भवद्द्द्द्शोरविषयीभूतं यदुक्ष्मापते ! । विद्वानप्यनयोर्भवच्चरणयोः सेवामना सेदिवान्
१८४
धातारं प्रथयन्ति युक्तघटनानैयत्यमुक्तादरम् ॥ अत्र · स्वतः शोभनायाः सूक्तेर्वर्णनीय गुणवर्णनराहित्यादशोभनायाश्च ताग्भिरेव रत्नादिभिः समुच्चयः । एकैकं च धातुर्युक्तघटनानैयत्याभावप्रथनक्षमं
१. ‘स्य सदस’, २. ‘त्युपक', ३. 'न सौ', ४. 'ते नृ', ५, 'तु' क. ख. पाठः,

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280