SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अलङ्कारसूत्रं [समुचम कश्चित् समुच्चीयमानः शोभनोऽन्यस्त्वशोभन इति सदसधोगो व्याख्येयः । ननु नृपाङ्कणगतः खल इत्यशोभनः अन्ये तु शोभना इति कथं न समुच्चीयमानस्ये सतस्तादृशेनासता योगः। नैतत् । नृपाङ्कणगतः खल इति प्रत्युत प्रक्रमभेदाद् दुष्टमेव, नैतु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् । अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्टमेवेत्युक्तम् । प्रकृते तु नृपाङ्कणगतत्वेने शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थ - नीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रक्रान्तं, विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यमेतत् । ननु 'दुर्वाराः स्मरमार्गणा' इत्यत्रोक्तोदाहरणवत् कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽशोभनत्वमिति विवक्षा । त्वेन च सदसद्भिः । सदसद्योग इत्यत्र सर्वेषामेव समुच्चयविषयाणां सदसत्वमिष्टं, न तु केषाञ्चित् सत्त्वं, केषाञ्चिदसत्त्वमित्याह - न त्वत्रेति । अस्य व्याख्यानस्योदाहरणे वैघट्यमाशङ्कय परिहरति — नन्वित्यादिना । अन्यैरिति । काव्यप्रकाशकारादिभिः । सहचरभिन्न इति । स्वतः शोभनैरुपाधिवशादशोभनैः शशिप्रभृतिभिः खलस्य भिन्नत्वात् । एवं तर्हि नृपाङ्कणगतः खल इत्येतदनुदाहरणमेवेत्याशङ्कय, उदाहरणं घटत एव, प्रक्रमविरोधो दुष्परिहर इलाह- प्रकृते त्विति । न निरवद्यमिति । निरवद्यं तु यथा - - सूक्तिस्त्वद्गुणवर्णनेन रहिता रत्नं त्वदन्यैर्धृतं `रम्यं वस्तु भवद्द्द्द्शोरविषयीभूतं यदुक्ष्मापते ! । विद्वानप्यनयोर्भवच्चरणयोः सेवामना सेदिवान् १८४ धातारं प्रथयन्ति युक्तघटनानैयत्यमुक्तादरम् ॥ अत्र · स्वतः शोभनायाः सूक्तेर्वर्णनीय गुणवर्णनराहित्यादशोभनायाश्च ताग्भिरेव रत्नादिभिः समुच्चयः । एकैकं च धातुर्युक्तघटनानैयत्याभावप्रथनक्षमं १. ‘स्य सदस’, २. ‘त्युपक', ३. 'न सौ', ४. 'ते नृ', ५, 'तु' क. ख. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy