________________
१८५
निरूपणम्] सव्याख्यालङ्कारसर्वस्वोपेतम्। तव स्वशोभनत्वमेवैतदिति विवक्षितमित्यस्ति भेदोऽनयोः । अत एवैकत्रोपसंहृतं मनसि सप्त शल्यानीति, सुन्दरत्वेनान्त प्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु कथं सोढव्य इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयतो ॥ कारणान्तरयोगात् कार्यस्य सुकरवं समाधिः॥६७॥
केनचिदारब्धस्य कार्यस्य कारणान्तरसंबन्धात् सौकर्य यत् , स सम्यगाधानात् समाधिः । समुच्चयसादृश्यात् तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक् प्रतिपादितमेव । उदाहरणं___ “मानमस्या निराकर्तुं पादयोम पतिष्यतः ।
उपकाराय दिष्टयेदमुदणं घनगर्जितम् ॥" माननिराकरणे कार्ये पादपतनं हेतुः । तत्सौकर्यार्थं तु धनगर्जितरय कारणान्तरस्य प्रक्षेपः । सौकर्य चोपकारायेति प्र. काशितम् ॥ स्पर्धया मिबद्धम् । अशोभनत्वमेवेति । अत्र दुर्वारा इत्यादौ स्मरमागणादीनां केषाचित् स्वतः शोभनत्वमशोभनत्रं च नास्ति । नववय:प्रमतयो यद्यपि स्वतः शोभनाः, तथापि तेषां रवाभाविकमेव शोमनत्वं विरहिण्या प्रीतक्षिप्यते । नतु तदङ्गीकारणोपाध्यन्तरवशादशोभनत्वमापाद्यत इति तत्राशोमनत्वर व विवक्षेत्यर्थः । अत एवेति । शोभनाशोभनत्वस्य विवक्षणादशोभनत्वस्यैव विषक्षणाच । अपरत्र स्थित्यादि । उपसंहृतमिस्यस्यानुषङ्गः । प्रकारत्रयरय सद्योगादिलक्षणस्य ॥
- सम्यगाधानादिति । कार्यस्येति शेषः । समुच्चयसादृश्यादिति । एकस्मिन् कारणे सति कारणान्तरोपनिपातरूपत्वात् । तत्सौकर्यार्थं माननिराकरणसौकर्यार्थम् ॥
१. 'त्वं ॥ का', २. 'यसु', ३. 'रेण योगात् सं', ४. 'श्यान्निरन्त', ५. 'तम् ॥ अत्र मा' क. ख. पाठ:.
N