________________
अलङ्कारसूत्रं
[प्रत्यनीक
एवं वाक्यन्यायाश्रयिणोऽलङ्कारान् प्रतिपाद्यधुना लोकन्यायाश्रयिणोऽलङ्कारा उच्यन्ते । तत्र,
प्रतिपक्षप्रतीकार शक्तौ तदीयतिरस्कारः प्रत्यनीकम् ॥ ६८ ॥
यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षेण प्रतीकारः कर्तुं न शक्यत इति तत्सम्बन्धिनो दुर्बलस्य यत् तं बाधितुं तिरस्कारः क्रियते, तत् प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । तत्तुल्यत्वादिदमपि प्रत्यनीकम् । यथा अनीकेऽभियोक्तव्ये तत्रासामर्थ्यात् तत्प्रतिनिधिभूतमन्यद् व्यामोहेनाभियुज्यते, तद्वदिह प्रतिपक्षे विजे दुर्बल तदीयतिरस्करणमित्यर्थः । प्रतिपक्षगतत्वेन बलवत्वख्यापनं प्रयोजनम् । यथा
१८६
―――
"यस्य किञ्चिदकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्रसदृशाकृतिं कृतो राहुरिन्दुमधुनापि बाधते ॥" अत्र राहोर्भगवान् कृष्णो बलवान् प्रतिपक्षः तदीयः पुनर्वक्रसादृश्यमुखेन दुर्बलश्चन्द्रमाः । तन्निराकरणाद् भगवतः प्रकर्षावगतिः ॥
तत्सम्बन्धिन इति । तच्छब्देन बलवान् प्रतिपक्षः परामृश्यते । तद्वदित्यादि । प्रतिपक्षतिरस्कारासमर्थेन तदीयतिरस्कारो व्यामोहहेतुक इत्यर्थः । व्यामोह भावे तु जेतव्यमेव जेतुमुत्सहेत, अशक्तश्चेत् तूष्णीमासीत, न त्वन्यमभियुञ्जीतेति भावः । तन्निरारकणादिति । राहुकर्तृकाञ्चन्द्रस्य निराकरणादित्यर्थः । प्रकर्षावगतिः एवं नाम भगवतः प्राबल्यं, यत् तत्ति - रस्कारेऽसमर्थः सन् राहुस्तत्सम्बन्धिचन्द्र तिरस्कारे प्रवर्तते ॥
१. 'यलो', २. 'हादभि' क. ख. पाठः.