________________
१८७
निरूपणम्
सव्याख्यालङ्कारसर्वस्वोपेतम् । उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपम् ॥ ६९॥ ___उपमेयस्यैवोपमानभारोद्वहनसामर्थ्याद् यदुपमानस्याक्षेपः कैमर्थक्येनालोचनं क्रियते, तदेकं प्रतीपम् । उपमानप्रतिकूलत्वादुपमेयस्य प्रतापमिति व्यपदेशः । यदप्युपमानतया प्रसिद्धस्योपमानान्तरप्रतितिष्ठापयिषयानादरार्थमुपमेयत्वं कल्प्यते, तत् पूर्वोक्तगत्या द्वितीयं प्रतीपम् । क्रमेणोदाहरणं-- 'येत्र च प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारः कुवलयदलदामानौ'त्यादि । यथा वा"लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां . देव! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः॥" अत्र यथासंख्यमप्यस्तीति प्राक् प्रतिपादितम् । “ए एहि दाव सुन्दरि ! कणं दाऊण सुणसु वअणिज्जं । तुज्झ मुहेण किसोअरि ! चन्दो उवमिज्जइ जणेण ॥"
उपमानस्येत्यादि । प्रतीपमित्यन्वर्थसंज्ञयावगतम् । उपमेयस्योपमानं प्रति प्रातिकूल्यं सामान्यलक्षणम् । उपमानभारः उपमानधुरा, उपमानकार्यमिति यावत् । कैमर्थक्येनेत्यादि । अनेन तत्कार्यस्य साधितत्वात् किमर्थमिदमित्येवंरूपं निरूपणम् । उपमानस्याक्षेपो भारादिशब्देन नैरर्थक्यपर्यवसायिना द्योत्यते किंशब्देनाभिधीयत इति च दर्शयितुमुदाहरणद्वयोपन्यासः । प्राक् प्रतिपादितमिति । यथासङ्ख्यलक्षणावसरे। द्वितीयस्य प्रतीपस्योदाहरणम् ---- ए एहीत्यादि । . अयि एहि तावत् सुन्दरि ! कर्णं दत्त्वा शृणु वचनीयम् । - तव मुखेन कृशोदरि! चन्द्र उपमीयते जनेन ।।
१, ‘ण यथा-य', २. 'त' क. ख. पाठः.