________________
अलङ्कारसूत्रं
प्रिवीप
अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कस्थितम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका | क्वचित् पुनर्निष्पन्नमेवोपम्यमनादरकारणम् । यथा --
१८८
"गर्वमसम्भाव्यमिमं लोचनयुगलेने किं वहसि भद्रे ! । सन्तीदृशानि दिशि दिशि सररतु ननु नीलनलिनानि ॥” अत्रोत्कर्ष भाज उपमानप्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनात्युत्कृष्टगुणत्वाद् यदुपमानभावमपि न सहते, तस्यो - पमानत्वकल्पने ऽपि प्रतीपमेव । यथा-
“अहमेव गुरुः सुदारुणाना
मिति हालाहल ! तात ! मा स्म हृप्यः । ननु सन्ति भवादृशानि भूयो
""
भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥ अत्र हालाहलत्वं प्रकृष्टदोषत्वादसम्भाव्योपमानभावमप्युपमानत्वेन निबद्धम् ॥
निकर्षार्श्वमिति । निकर्षश्च वणिज्जं इत्यनेन सूच्यते । वदनस्य चेत्यादि । अत्र चन्द्रस्योपमेयीकरणे चन्द्रनिन्दाप्रतिमिपादयिषायाः न प्रयो जकत्वमिति भावः | क्वचिदित्यादि । एहीत्यादौ पूर्वार्धेन स्वानभिमतत्वप्रदर्शनादौपम्यस्यानिष्पन्नत्वं, गर्वमित्यादौ ईदृशानि सन्तीत्यनेन तस्य निष्पवत्त्वं गम्यते । न्यक्कारकारणमिति । उपमानभावस्योत्कृष्टनिष्ठतया तदपेक्षतयोपमेयस्य निकर्षप्रतीतेः । अत्युत्कृष्टगुणत्वादिति । केचि दसदृशं सदिति शेषः । असम्भाच्योपमानभावमपीति । 'उत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परे 'ति न्यायात् ॥
१: 'न व', २. 'सि किं भ', ३. 'नताप्रा' गः पाठः. ४. 'म्यधर्मस्या' ख. पाठः ५. 'क्षि' क. ग. पाठः.