SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८९ सव्याख्यालकाम्सर्वस्वोपेतम्। वस्तुना वस्त्वन्तरनिगृहनं *निमीलितम् ॥७॥ सहजेनागन्तुकेन वा लक्ष्मणा यद् वस्त्वन्तरेणं वस्त्वन्तरं निगुह्यते, तदन्वाभिधानं निमीलितम् । न चायं सामान्यालङ्कारः । तस्य हि साधारणगुणयोगाद् भेदानुपलक्षणं रूपम् । अस्य तूत्कृष्टगुणेन निकृष्टगुणस्य तिरोधानमिति महाननयोर्विशेषः । सहजेन यथा"अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरों विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥" अत्र दृक्तारल्यादिना स्वाभावकेन लक्ष्मणा मदोदयकृतं दृत्तारख्यादि तिरोधीयते । आगन्तुकेने च यथा वस्त्वन्तरनिगृहनमित्यत्र सम्बन्वसामान्यषष्ठयाः समासः नतु कृद्योगषष्ठयाः । तस्याः 'कर्मणि च' (२. २. १४) इति समासनिषेधात् । वस्तुनेत्यत्र 'उभयप्राप्ती कागे' (२. ३. ६६) इतेि नियमात् षष्ठयभाव इति केचिदाहुः । अन्ये तु करणे तृतीया । वस्त्वन्तरनिगूहनमिति कर्मणि षष्ठया एव समास इत्याचक्षते । अपरे तु वस्तुनो वस्त्वन्तराने गृहनमिति पाठ इत्यभिदधते । तत्र सुधीभिर्युक्तं ग्राह्यम् । लक्ष्मणेति करणे हेतौ वा तृतीया । वस्त्वन्तरेणेते कर्तरि करणे वा । निगृह्यत इाते दीर्वविशिष्टः पाठः प्रमादजः। यकि सति गुणाभावे 'ऊदुपधाया गोहः' (६. ४. ८९) इत्यूदादेशाभावात् । अन्वर्थाभिधानामति । निभोलयते वे निष्ठाविधानात् । न चायमिति । प्रस्तुतस्यान्येनेत्यादिना लक्षयिष्यमाणः । लक्ष्मणेति । दृक्तारल्यादिकार्यतिरोधानद्वारा लीलया मदोदयलक्षणं वस्त्व १. 'न य' क. ख. पाठः. २. 'रगू' ख. पाठः. ३. 'तो तृ' क. पाठः. ४. 'वेन ऊ' ख. पाठ:. * निरुपसर्गव संज्ञान्यत्र प्रसिद्धा।
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy