SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ निरूपणम् ] १८३ सव्याख्यालङ्कारसर्वस्वोपेतम् । अत्रामालिन्येन शोभनस्य कुलस्य मूर्त्यादिभिः शोभनैः समु. च्चयः । एकैकं च दर्पहेतुतायोग्यं स्पर्धया निबद्धम् । असतोऽशोभनस्यासता समुच्चीयमानेन योगे यथा - “दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं . गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमो नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः॥" अत्र स्मरमार्गणानां दुर्वारत्वेनाशोभनानां तादृशैरेव प्रियतमादिभिः समुच्चयः । नववयःप्रभृतीनां च यद्यपि स्वतः शोभनत्वं, तथापि विरहविषयत्वेनात्राशोभनत्वं ज्ञेयम् । सदसतः शोभनाशोभनस्य तादृशेन सदसता समुच्चीयमानेन योगे यथा - “शशी दिवसधूसरो गलितयौवना कामिनी - सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुधनपरायणः सततदुर्गतिः सज्जनो . नृपाङ्कणगतः खलो मनसि सप्त शल्यानि मे ॥" अत्र शशिनः स्वतः शोभनस्यापि दिवसधूसरत्वादशोभनत्वेन सदसतस्तादृशैरेव कामिनीप्रभृतिभिः समुच्चयः। नत्वत्र 'ऋदोरप्' (३. ३. ५७) इत्यप् । सद्योग इत्यादि । मूर्त्यादिभिः शोभनैरिति । भद्रत्वश्रुतिशालित्वपर्याप्तत्वस्फात्यखण्डितत्वयोगाच्छोभनैः । तादृशैः अशोभनैः । नववयःप्रभृतीनामित्यत्र प्रभृतिशब्देन निर्मलकुलादयो गृह्यन्ते । विरहविषयत्वेनेति । विरहिण्या तेषामशोभनत्वस्यैव भावितत्वात । तादृशेरेवेति । स्वतः शोभनत्वेन गलितयौवनत्वादिभिरशोभन १. 'मदूरत्वादि, २. 'वं विज्ञे', ३. 'तः' क. ख. पाउ:. ४. 'त' न. पाठः,
SR No.023505
Book TitleAlankar Sutra
Original Sutra AuthorN/A
AuthorK Sambashiv Shastri
PublisherGovernment of Travancore
Publication Year1926
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy