________________
१४२
अलङ्कारसूत्रं
(समुचनएकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च ॥ ६६ ॥
समुच्चय इत्येव । यत्रैकः कस्यचित् कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तः, तत्रान्योऽपि यदि स्पर्धया तत्सिद्धिं करोति, तदायमपरः समुच्चयः । न चायं समाध्यलङ्कारेऽन्तर्भवति । यत्र ह्येकस्य कार्य प्रति पूर्ण साधकत्वम्, अन्यस्तु सौकर्याय काकतालीयन्यायेनापतति, तत्र समाधिर्वक्ष्यते। यत्र तु खलेकपोतिकया बहूनामवतरस्तत्र समुच्चयः । अतश्चानयोः सुमहान् भेदः । स एष समुच्चयः सद्योगेऽस. योगे सदसद्योगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता समुच्चीयमानेन योगे यथा"कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी
भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो
व्रजति सुतरां दर्प राजस्त एव तवाङ्कुशाः॥"
एकस्येत्यादि । एकस्य कारणविशेषस्य प्रस्तुतसाध्यविशेषेहतुत्वे सत्यपि । अन्यस्येत्येकत्वमविवक्षितम् , उदाहरणेषु बहूनामुपनिपातस्य दृष्टत्वात् । स्पर्धयेत्यनेन समुच्चय इत्यन्वर्थसंज्ञाविज्ञानादवगतं सर्वेषामपि कारणानां समप्रधानभावं दर्शयति । समाध्यलङ्कारे 'कारणान्तरयोगादि'त्यादिना वक्ष्यमाणलक्षणे । काकतालीयन्यायेनेति । अतर्कितप्राप्तिलक्षणोपमेयार्थवृत्तेः काकतालशब्दात् 'समासाच तद्विषयात्' (५. ३.१०६) इति छः । समाध्युदाहरणे च काकतालीयत्वं दिष्टयेत्यनेन द्योतितम्। खलेकपोतिकयेति । यथा खले शाल्यायेकदेशग्रहणार्थमभिसन्धिपूर्वकं बहवः कपोता युगपदुपनिपतन्ति, तद्वदेककार्यनिष्पादनोद्देशेन बहूनां हेतूनामुपस्थानं समुचयस्य विषय इत्यर्थः । अवतर इति । 'तृ प्लवनतरणयोरि'त्यस्माद् भावे
१. रणरत', २. यसि', ३. 'त' क. ख. पाट, ४. 'स', ५. 'थप्रव',
स. ग. पाठः.