________________
निरूपणम् ]
सम्याख्यालङ्कारसर्वस्वोपेतम् ।
एवं गुणसमुच्चयेऽप्युदाहार्यम् । केचित् पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरन्ति च -
“न्यञ्चत् कुञ्चितमुन्मुखं हसितवत् साकूतमाकेकरं व्यावृत्तं प्रसरत् प्रसादि मुकुलं प्रेम कम्प्रं स्थिरम् । उद्भु भ्रान्तमपाङ्गवेर्ति विकचं मज्जत्तरङ्गोत्तरं
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥” अत्राकेकरादयो गुणशब्दाः न्यञ्चदित्यादयः क्रियाशब्दा इति सैमस्तत्वेन गुणक्रियायौगपद्यम् । प्रसादिसप्रेमेत्यादीनां समासकृत्तद्धितेषु सम्बन्धाभिधानमिति सम्बन्धस्य वाच्यत्वात् तस्यै च सिद्धधर्मरूपत्वेन गुणत्वाद् गुणशब्देत्वेन गुणयौगपद्यं द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः ॥
एकं समुच्चयं प्रकारत्रयभिन्नं लक्षयित्वा द्वितीयं ल
१८१
क्षयति
एवमनुरक्ताया अनभ्यवपत्तेराक्षेपगर्भं साधो ! इत्यामन्त्रणम् । उदाहार्यमिति । यथा
तवं यशसा रविवर्मन्नतिशयितययातिनहुषभरतेन । अखिलमपि भुवनमासीत् सुरभि च धवलं च रक्तं च ॥ केचित् पुनरित्यादि । एतदर्थं च सूत्रे गुणक्रियाशब्दस्यावृत्त्या कृतद्वन्द्वैकशेषविषयत्वमप्याचक्षते । न्यञ्चदित्यादि । अन्यक्रियमित्यत्र क्रियाग्रहणं गुणस्याप्युपलक्षणम् । आकेकरादीत्यादिशब्देन मुकुलादयः शब्दा गृह्यन्ते । न्यञ्चदित्यत्रादिशब्देन प्रसरादयः । प्रसादिसप्रेमेत्यादिशब्देनोद्भु इत्यादयः । गुणत्वादिति । प्राणप्रदत्वाभावात् । जातित्वाभाव इति शेषः । त्रिधेति । गुणानां क्रियाणां गुणक्रियाणां चेति व्यस्तसमस्तत्वेन ॥
—
१. 'लतू स' ग. पाठः. २. 'वृत्ति वि' ३. 'सामस्त्येन'. ४. 'स्य सि', ५. 'देन', ६. 'नयाँ क. ख. पाठः.