________________
अलङ्कारसूत्रं
गुणक्रियायौगपद्यं समुच्चयः ॥ ६५ ॥
२
गुणानां वैमल्यादीनां यौगपद्येनावस्थानेन तथैव च क्रियाणां समुच्चयालङ्कारः । विकल्पप्रातिपक्ष्येण चास्य
स्थितिः । क्रमेण यथा
1
१८०
"विदलितसकलारिकुलं
तव बलमिदमभवद्वैद्य विमलं च ।
प्रखलमुखानि नराधिप !
मलिनानि च तानि जातानि ॥ "
[समुच्चय
“अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपार्धरम्यैः ॥” एतद् भिन्नविषयत्वेनोदाहरणद्वयम् । एकाधिकरणत्वेनाप्ययमलङ्कारो दृश्यते । यथा
"बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्य यद् विदधाति सा विधुरिता साधो! तदाकर्ण्यताम् । शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्खति भ्राम्यत्युल्लुठति प्रणश्यति दलत्युन्मूर्छति त्रैस्यति ॥” स विकल्पः । दृष्टेः दर्शनात् । अहित हितशब्दयोः स्वरूपभेद एव, न त्वभिमतलक्षणोऽर्थो भिद्यते ॥
सूत्रे गुणक्रियाशब्दयोः कृतैकशेषयोर्द्वन्द्वं कृत्वा यौगपद्यशब्देन तत्पुरुषो विधेय इत्याह- गुणानामित्यादि । बहुवचनमविवक्षितम् । वैमल्यादीनामिति । न तु धर्ममात्रस्य । विकल्पेत्यादि । अस्य समुच्चयस्य । अतश्च विकल्पादनन्तरं लक्षित इति भावः । भिन्नविषयत्वेनेति । वैमल्यमालिन्ययोर्वर्णनीय बले खलमुखेषु च वर्तमानत्वात्। विभ्राणेत्यादि ।
१. 'णादीनां', २. 'नं त', ३. 'दाशु वि', ४. 'तः सुदु:', ५. 'त्रुय्यति' क. ख. पाठ:. ६. 'यबमल्ययो' व पाठः,