________________
निरूपणम् ]
सय्यादयालङ्कारसर्वस्वोपेतम् ।
"भक्तिप्रह्नविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैनीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥” अत्र नेत्रे तनुर्वेति विकल्पः । उत्तमत्वाच्च तुल्यप्रमाणविशिष्टत्वम् । न चात्र समुच्चये वाशब्दः । सम्भवन्त्यामपि गतौ महाकविव्यवहारे प्रयोगाभावात् । ननु विरोधनिमित्तको विकल्पः। कथं चात्र विरोधः । नैतत् । तनुमध्ये नेत्रयोः प्रविष्टत्वात् तयोः पृथगभिधानमेव न कार्यम् । कृतं च सत् स्पर्धिभाव गमयति । स्पर्धिभावाच्च विरुद्धत्वम् । नेत्रे अथवा समस्तमेव शरीरमित्यर्थावगमे विकल्पस्य सुप्रत्ययत्वात् । स चात्र श्लेषाश्लिष्टो लिङ्गश्लेषस्य वचनश्लेषस्य चात्र दृष्टेः । तस्मात् समुच्चयप्रतिपक्षभूतो विकल्पाख्योऽलङ्कारः पूर्वैरकृतविवेकोऽत्र दर्शित इत्यवधातव्यम् ॥
३
૧૭૬
लक्षणतुल्यप्रमाणविशिष्टत्वाद्यतिदिशति । भक्तिप्रहेत्यादि । अत्र विशेषणानां शीनद्योस्तुल्यरूपत्वान्नपुंसकत्व स्त्रीत्वद्वित्वैकत्वविशिष्टार्थद्वयवाचित्वाच्च लिङ्गश्लेषो वचनश्लेषश्च । हितप्राप्तये नीते, ईहितप्राप्तये नीता च । नेत्रपक्षे महानिधी इति पदच्छेदः, तनुपक्षे महानिधिरिति । कुरुतामिति नेत्रपक्षे परस्मैपदं, तनुपक्ष आत्मनेपदम् । वाशब्दस्य समुच्चयद्योतकत्वेऽसत्यपि हेत्वभावादत्र विकल्पो न युज्यत इति समुच्चयवादी प्रत्यवतिष्ठते नन्विति । कथं चेति । यथैकं प्रति प्रणिपतनंधनुराकर्षणयोः समावेशो न घटते, न तथा नेत्रतन्वोरिति भावः । न कार्यमिति । पौनरुक्त्यप्रसङ्गात् । कृतं च सदिति । अपौनरुक्त्याय तत्तुल्यपदार्थान्तरप्रतीतिजनकद्वारा । सुप्रत्ययत्वादिति । विकल्पस्य सुज्ञानत्वात् । स चेत्यादि ।
१. 'वात् तु',
रे
तथा प्र'. ३. 'मे सु' क. ख. पाठ:.
--