________________
१७८
अलङ्कारसूत्रं
[विकल्प
विरुद्धयोस्तुल्यप्रमाणविशिष्टत्वात् तुल्यबलयोरेकत्र युगपत् प्राप्तौ विरुद्धत्वादेव यौगपद्यासम्भवे विकल्पः । औपम्यगर्भत्वाच्चात्र चारुत्वम् । यथा - 'नमयन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्यो वा' इत्यादि । अत्र प्रतिराजकार्ये नमने शिरसां धनुषां च तुल्यप्रमाणविशिष्टत्वम् । सन्धिविग्रह चात्र क्रमेण तुल्ये प्रमाणे, प्रतिराज - विषयत्वेन स्पर्धया द्वयोरपि संभाव्यत्वात् । द्वौ चेमौ विरुद्धाविति नास्ति तयोर्युगपत् प्रवृत्तिः । प्राप्नुवतश्च युगपत् प्रवृत्ति प्रकारान्तरस्यात्रानाशङ्कयत्वात् । ततश्च न्यायप्राप्तो विकल्पः । नमनकृतं च तयोः सादृश्यमित्यलङ्कारता । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् । औपम्यगर्भत्वाच्चात्र चारुत्वम् । कचिच्छ्रेषावष्टम्भेनाप्ययं दृश्यते । यथा -
भुञ्जीत चेति स्नानभोजनयोरविरुद्धयोः सामानाधिकरण्येऽपि, नापि च (न) हिंस्यात् सर्वा भूतानीति, अग्नीषोमीयं पशुमालभेतेति हिंसानिषेधविध्योरेकविषयत्वे विरोधे च सत्यपि सामान्यविशेषविषयत्वेन दुर्बलप्रबलयोरित्यभिप्रायेणाह – विरुद्वयोरित्यादि । औपम्यगर्भत्वादिति । अत्र वैवक्षिकमौपम्यं विवक्षितम् । शिरःप्रभृतीनां च धनुरादीनां च प्राकरणिकाप्राकरणिकत्वाभावात् । औपम्यगर्भत्वं चालङ्कार प्रस्तावादर्थलब्धमित्याह – चारुत्वमिति । न द्यौपम्याभावे गृह्णाति न गृह्णातीत्यादौ विकल्पे सत्यप्यलङ्कारता, चारुत्वाभावात् । नमन इति । नतिं प्रति प्रयोजकव्यापारे । प्रमाणयोस्तुल्यत्वमुपपादयति – प्रतिराजवि षयत्वेनेति । प्रकारान्तरस्य सन्धिविग्रहव्यतिरिक्तस्य । एवं कर्णेत्यादि । प्रतिराजकार्ये कर्णपूरीकरणे आज्ञानां मौर्बीणां च सन्धिविग्रह
१. 'द्याभावे', २. 'दौ', ३. 'हावत्र' क. ख. पाठः. ४. 'त्यल', ५. 'मानुषीणां' ग. पाठः.