Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 16
________________ प पापस्थानले तो Doa सूत्र वतारः ममहावतयुग्म मध्यमजिनादीनां // 12 // तदसम्म सत्यं, यद्यप्च ननु किमिति मैथुनस्य सर्वेष्वपि जिनानां तीर्थेषु पापस्थानत्वेऽपि अणुवतेष्वपि चतुर्थे तस्मिन् स्वदारसन्तोषादेरभ्युपगमेऽपि महावतेषु मध्यमजिनादीनां तीर्थेषु व्यवस्था भिन्ना कृता', येन तत्र बहिर्धादानाद्विरमणमितिरूपं चतुर्थपञ्चममहाव्रतयुग्मरूपं महावतं गीतमिति ? चेत् / सत्यं, यद्यप्यत्र शास्त्रेषु कालविशेषेण जीवविशेषा एवाचाराणां भेदे कारणतया गीयन्ते, न च तदसम्भवि, न च तत्र वाच्यं किञ्चित् , परमेके एवं कल्पयन्ति यदुत-परे तीथिका आश्रमवादं पुरस्कृत्य मैथुनं परिहरन्तोऽपरिहरन्तो वा त्यक्तं मैथुनमिति उद्घोष्य सस्त्रीका वानप्रस्थावस्थामनुयान्ति, न चैतजैनशासनाश्रयिणां शोभत इति मूलत एव स्त्रीपरिग्रहस्यैव निषेधः कृतः। ततश्च बहिर्धादानाद्विरमणमित्याख्यात महाव्रतमिति / न चैतदयुक्तमामातीति। नन्ववधेयमिदं यत्-प्राणातिपातादीनि पापस्थानानि सापवादानि, केवलं मैथुनं निरपवाद, यत उच्यते-'तम्हा सव्वाणुना सव्वनिसेहो य पवयणे नत्थि। मोत्तुं मेहुणभावं न तं विणा रागदोसेहि // 2 // ति, अत एव द्रव्यभावः प्राणातिपातादिषु दय॑ते भेदः स्त्रीर्वजयित्वा, नात्र चतुर्थे महाव्रते द्रव्यभावभङ्गः। एवं तिरश्चां परेषां च मैथुने स्वजातीयनवलक्षगर्भजपञ्चेन्द्रियासंख्यसंमृच्छिममनुष्यविराधनाया अभावेऽपि रागद्वेषवेगपूर्णत्वाद्वयमेव मैथुनं, तत एव पापस्थानं च सर्वेषामप्येतदिति / एवमणुव्रतानां चतुष्टयं यत् प्रतिपादितं, तत् भगवद्भिस्तीर्थप्रवृत्तिकाळे, परं स तीर्थप्रवृत्तिकालो न समग्रोत्सर्पिण्यवसर्पिणीरूपः किन्तु दशकांटीकोटीसागरोपमप्रमाणायां तस्यामेक एव साधिककोटीकोटीसागरमानः. शेषस्तु सर्वोऽपि हीन एव तीर्थप्रवृत्त्या, यस्मिंश्च काळे तीर्थस्य प्रवर्तनं भवति तत्र सर्वस्मिन् क्रयविक्रयादिव्यवहारस्यावश्यं प्रवृत्तिर्भवति, स क्रयविक्रयादिव्यवहारश्च विविधजातीयसङ्ग्रहाधीन इत्यावश्यकता तत्कालीनानामर्थसङ्ग्रहे, इच्छा च तद्विषयिणी 'इच्छा हु आगाससमा अणंतियेति जनानामपरिमिता स्यादेवातस्तस्यार्थजातस्येच्छानिरोधेन परिमाणकरणं तीर्थकालीनानामावश्यकमिति तद्रूपं पञ्चममणुव्रतमथ आहुः सूत्रकाराः। दृश्यते जगति परिग्रहप्रभव एव सर्वोऽपि व्यवहारम्तद्विषयिण्या इच्छायाश्च 'दोमासकर कर्ज कोडीएवि न निट्टियं' तिवचनादपरिमितत्वं, ततस्तत्परिमाणकृतेरौचित्यात्तन्मयं पञ्चममणुव्रतमिति।' अत्रायं विशेषः-यथा प्रतिपन्नावधयो न देशविरतेः प्रतिपद्यमानाः स्युः, आनन्दादिवत् / पूर्वप्रतिपन्नास्त्ववधेरधिगमवन्तो भवन्ति यद्यपि Aणी 'इच्छा हु आगाससमा तप पञ्चममणुव्रतमथ आ नापाव न निट्टिय' // 12 // CORP. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48