Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 19
________________ सूत्र // 15 // विराधनाप्रसने उत्सर्गापवादपथविचारणं श्रीओधनियुक्त्यादौ किं? कृतमिति / किञ्च-'भूतवत्यनुकम्प'त्यादिना / तर्कातत्त्वार्थसूत्रेण 'पाणाणुकंपयाए' इत्यादिना व्याख्याप्रज्ञप्तिसूत्रेण प्राणाद्यनुकम्पनस्यैव सातवेदनीयस्याश्रवादिषु कारणतोक्ता। न च विरतिरूपा साऽनुकम्पेति, विरतेः 'अणुव्वयेत्यादिना स्वर्गहेतुत्वाद्युक्तेः। अनुकम्पा बतार: यास्तु 'साणुक्कोसयाए' इत्यादिना मनुष्यायुःकारणताया उक्तेः, श्रीमेघकुमारेण च मनुष्यायुः शशानुकम्पयैव लब्धमिति ज्ञातधर्मकथासु प्रसिद्ध, अलब्धसम्यक्त्वाञ्च तस्य, विरतिरूपत्वं न तस्या, शतोऽपीति युक्तमाद्यस्य व्रतस्य परोपकारित्वमिति। किञ्च-जगतो दुःखनाशायैव वरवोधेर्विचारः, तत एव जिननामकर्मबन्धः, न च समयं जगद् विरतिधारकं / अन्यच्च जिननामकर्म सम्यक्त्वमूलकं, तदुदये च येऽतिशया जायन्ते, तेभ्यो दुर्भि- II क्षेतिमूषकशलभातिवृष्टयो ये उपद्रवाः शाम्यन्ति, ते किं न प्रेक्ष्यन्ते / / तथा चाविरतादीनामपि सर्वेषां मरणादिनिवारण नानिष्टं / यदि चाविरततया पापानुमतिः स्यात्तहिं तु हिंसात्यागोपदेश एव न कर्तव्यः, तनिषेधात् जीवनस्य पापानुमतेश्च स्वयंसिद्धत्वभावाद् इत्यलं निर्विचारेण सह विचारेण / तत्त्वतः प्राणातिपातविरतिः परेषामप्युपकारिण्येव, मुख्यत्वेनाहिंसालक्षणस्य केवलिप्रज्ञप्तस्यधर्मस्यैष एव डिडिमो यदुत-जीव / जीवय जीवनसाधनानि मा नाशयेति / परेषां पापानामनुमतिस्तु तान् साक्षात् पापेषु प्रवर्तनेन, अन्यथा आचार्यादीनामनादिभिः प्रतिलम्भनेन तेषां व्याध्यादीनामपगमादिना साराकरणेन नीरोगीकृतानां प्रमादादिसम्भवेन आहत्य च पातादि- 0 सम्भवेन दायकानां वैयावृत्त्यकराणां च महापापागमसम्भवात् , सरागपरमेष्ठिनां नमस्कारादिनापि रागादीनामनु | मोदनसम्भवात्तेषामपि वर्जनप्रसङ्ग इत्यलं! यदि चाविरतानां जीवनमनिष्टं स्यान्नैव सर्वस्मात् प्राणवधात् निवृत्तः करणेनाद्यस्य महाव्रतस्येष्टत्वं स्यात्, हिंसानिवृत्तरर्थापत्त्या जीवनरक्षणपरत्वात्। अपि च-परेषां पापानामनुमोइन- परेषां पापक्रियांसु प्रवर्तनादिनैव / अत एव नासंयता तास्वेत्यादिकथनस्यैव निषेधः। किश्च-श्रीआचारामादौ परतीर्थिकः सह ' भोजनग्रहणांदिव्यवहारः श्रीस्थानाक्षादौ च तेषां भयादिवारणायैव मुनिपदस्थानामप्यन्तःपुरादिषु गमनं कल्प्यतया. निर्दिष्टं। एवं नासंयतानां जीवनेन असंयतपापपोषः। एवं च जिनानां वार्षिकदानं तु न स्यादेव सम्यक्त्वप्रायजिनपदमहिमरूपं, किन्तु परमपापहेतुकं / तत्र दाममप्रतिपतितमत्यादिक्षानवन्तः निर्मलतरसम्यक्त्वाश्च जिनाः निजपदमहत्त्वार्थ दानस्य माहात्म्यख्यापनद्वारा शास- // 15 // Jun Gun Aaradhak Thu P.P.AC.Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48