Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 30
________________ . तर्का वतार // 26 // प्रेत्य गते तत्वात् , दृष्टे श्रुते सङ्कल्पिते च मांसोत्पादने दोषो भवतु, परमदृष्टादिविशिष्टस्य तस्य भक्षणं कथं दुष्टमिति चेत् / शृणु, प्राक्तावत् नरकस्यावन्ध्यं कारण मांसभक्षणं, यतः श्रीऔपपातिकश्रीस्थानाङ्गभगवत्यादिषु नारकायुर्वन्धकारकेषु चतुर्षु कारणेषु 'कुणिमाहारेण ति वचनेन स्पष्टतया मांसस्य यादृशतादृशस्यापि नारकायुकहेतुतया निर्दिष्टं। किञ्च-सर्वविरत्यादिप्रतिपत्तरसहिष्णोर्यावत् सम्यक्त्वमप्यनङ्गीकुर्वतामपि जनानां मांस| भक्षणादेरवश्यपरिहारो देशनीयतयोक्तः। किश्वाकृतादिविशेषणस्यापि परिभोगे तदुत्थदोषस्यापातः, अत पवाकृतादिविशिष्टस्याप्याधाकर्मणो भोगे साधूनामष्टकर्मबन्धादिदोषः स्पष्टतया शास्त्रे उक्नः, तस्मात् अप्रतिपन्नसम्यक्त्वादिभिरपि नरकभीरुभिर्वज्यं चेन्मांस, तहि प्रतिपन्नानुव्रतानां तु स्वप्नान्तरेऽपि तद्भक्षणस्य स्यादयोग्यत्वमिति / आद्यत्वं च स्थूलप्राणातिपातविरमणस्य महावतेषु सर्वस्मात् प्राणातिपाताद्विरमणस्याद्यत्वात् , तस्य तत्राद्यत्वं पृथ्व्यादिषड्जीवनिकायानामर्हद्भिरेव तद्दयार्थ , प्रकपणात् , तत्वतः षट्कायश्रद्धानस्यैव जैनमतस्वरूपत्वाद, 'अहिंसालवणस्से तिववनाद्धर्मस्यैवाहतस्थाहिंसालझणत्वात्। अत एव 'अहिंसैषा मता मुख्या, स्वर्गमोक्षपसा| धनी / एतत्संरक्षणार्थ च, न्याय्यं सत्यादिपालन // 1 // मि' त्युक्त्वा सत्यादीनामहिंसारक्षणसाधनत्वमुक्तं / अत एव-च धर्मपरीक्षात्रिकोट्यां कषच्छेदतापा जीवदयाविषयतयैव मुख्यत्वेन गदिताः गदिता च धर्मभेदेषु 'अहिंसा संजमो तवो' इत्यत्राद्यतया सैवेति योग्यमेवास्याद्यत्वं, न चात्र क्रमो विवक्षामात्राधीन इति तु प्रागुक्तमेवेति, प्राणातिपातविरमणस्य प्राधान्यादेवेर्यालमित्यादयोऽष्टौ प्रवचनमातृतयाभिधीयन्ते, तास्वेव सकलं प्रवचनं मातं, प्रवचनस्य समग्रस्य जननात् परिपालनाच्छोधनाच्चैषां गीयते ईर्यासमित्यादीनां प्रवचनमातृता, वधविरमणध्येयप्रधा. नाश्चैता अष्टावपीति स्पष्ट / वधविरमणस्य प्राधान्यादेव तद्विषयकश्रुतस्य प्रामाण्यं प्रचुरं, सद्रक्षणायैव केवलष्टयाऽशुद्धस्यापि पिण्डस्य शुद्धत्वोक्तिः केवलिनोऽपि। किञ्च-अयोगिनं यावद् द्रव्यप्राणातिपातविचार सयोगिनो यावत् सावता च वधस्य शास्त्रेषु प्रतिपादिता, प्रवचने प्राधान्यं प्राणातिपातविरमणस्य, उच्यते चास्य प्राणातिपातविरमणस्य प्राधान्यादेव 'पिंड असोहयंतो अचरित्ती पत्थ नत्थि संदेहोति / किञ्च-साध्वाचारनिरूपणचणे श्रीआचाराने प्रथममध्येयतया शस्त्रपरिज्ञाध्ययनमाविष्कृतं श्रीमद्भिर्गणधरैः, श्रीमद्भिः शय्यभवसूरिभिरपि श्रीदशवैकालिके प्राणातिपातविरमणस्य प्राधान्यमाश्रित्यवाद्याध्ययनं दुमपुष्पिकाख्यमाख्यातं। किञ्च-प्राकाळे श्रीआ Jun Gun Aaradhak Trus REP.AC. Gunratnasuri M.S.

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48