Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi

View full book text
Previous | Next

Page 23
________________ S0 पञ्च तर्का सूत्र वतार: // 19 // त्वाऽपि तं प्रतिपतन्तस्तस्मात्तथा दुष्टतमाध्यवसाया जायन्ते, यथा दारुणत्वमवश्यं तेषां जायते / को हेतुरिति ?, HI स उक्त एव महामोहजनकत्वं / अत एवोच्यते 'धर्मभ्रष्टो निस्त्रिंशः श्वपाकादतिरिच्यते' इति, आक्षप्तं च शाखे यदुत-पतितश्रामण्यपरिणामः कण्डरीकः पालितदीर्धकालीनसंयमोऽपि स्वल्पेनैव कालेन सडिक्लष्टतमतां गतोऽधःसप्तमावनीमापेति, मणिकारो नन्दश्च तथाप्रकारविराद्धाणुवतो जातो वाप्यां स्वकीयायां दर्दुतयेति, योग्यमेवोक्तं भने महामोहजनकत्वमिति / यथा हि श्रीसमवायाङ्गावश्यकाद्युक्तानि त्रिंशन् महामोहनीयबन्धस्थानानि सन्ति, तथेदमप्यणुव्रतादीनां भङ्गरूपं महामोहनीयस्थानमित्युक्तं महामोहजनकत्वं / सामान्येन मोहजनकानि तु साम्परायिकाणां सर्वाण्यप्यध्यवसायस्थानानि सन्ति, परमिदमणुव्रतादीनां भङ्गाजायमानमध्यवसायस्थान तीवरसस्थित्यादिमन्माहजनकमिति महामोहजनकं भने दारुणत्वमुक्तमिति / महामोहबन्धनकारणानि विदधतोऽपि केचित् चिलातिपुत्रदृढप्रहारिप्रभृतयो लघु धूयन्ते शिवपदगामितया, परं नैतेऽणुव्रतादिभञ्जकतया महामोहबन्धकाः, अणुव्रतादिभञ्जकानां तु न केवलो महामोहस्य बन्धः, किन्तु प्रेत्यापि सम्यक्त्वविरत्यादीनां दुर्लभत्वमेवेत्याहुः-भूओ दुल्लहत्त'ति, यद्यपि मरुदेव्यादिवत् केचिजोवा अनादिस्थावरात् प्रथममायाता एव प्राप्नुयुः शिवपदानां साधनानि शिवं च, परं अणुवतादिभञ्जकानां तु पुनर्मूकप्रतिबोधितादिवद्भयो धर्मस्यैव प्राप्तेर्दुर्लभताऽस्ति, ततो योग्यमुक्तं भने भूयो दुर्लभत्वमिति / एतेन 'जायाए' इत्यादिना 'दुल्लहत्त'मित्यन्त्येन ग्रन्थेनानुव्रतानां ग्रहणायं योग्या भूमिः सृष्टा / अथ कथं तान्यनुव्रतानि ग्राह्याणीत्याहुः-'एव'मित्यादि, पृथक् प्रकरणमिदं, तेन एवमित्युक्त्वाऽऽरब्ध, सम्बन्धश्चास्यैवमित्यव्ययस्य प्रतिपद्यतेत्यनेन, न तु पूर्वग्रन्थेन, पूर्वाधिकारस्य स्वायत्तत्वात / एवमित्यादिकस्य समग्रस्य वाक्यस्य तु 'थूलगपाणाइवायेत्यादिना 'इच्चाईत्यन्तेन सम्बन्धः। किञ्चवाक्यं चेदं प्रतिपत्स्यमानेष्वणुवतेषु शक्तेरगृहननिमनतिक्रमणं यथा भवति तथा यथाशक्ति स्वीकार इत्यादेदर्शनेन विधिमार्गस्य दर्शनाय / तथाच यदि स्यात् वीर्यस्य प्रकर्षस्तदा तु सर्वविरतिर्याऽष्टादशभ्यः पापस्थानेभ्यो विरमविवेकत्यागरूपा सैव प्रतिपत्तव्या, तस्या एव मोक्षसाधनस्य मुख्यमार्गत्वात् , परं गृहदारार्थविषयादीनामासक्तिगता न भवेत, ततश्च भवेदशक्तिर्ग्रहादीनां त्यागे, तदेव प्रतिपत्तव्यैषा / तत्रापि सर्वदा यथाशक्ति कार्येव वृद्धिविरतेः / ततो युक्तं विजयादीनां सर्वथा ब्रह्मधरणं, जिनदासादीनां चतुष्पदपरिग्रहत्यागो योग्य एवेति। एवं च शिषं च, पर मरुदेव्यादिवत् केचिज, किन्तु प्रत्यापि माणवतादिभञ्जकता यथा भवति तथा यथाशक्ति विरमविवेकत्यागरूपा सैव प्रातथाच यदि स्यात् वीर्यस्य // 19 // Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48