Book Title: Agamoddharak Kruti Sandohasya Part 07
Author(s): Manikyasagarsuri
Publisher: Mithabhai Kalyanchandji Pedhi
View full book text
________________ पश्च सूत्र वतारः // 10 // ला मुपलभ्य चतुर्थे स्थाने स्थूलमैथुनविरमणरूप स्वस्त्रीसन्तोषरूपं वाऽऽहुः सूत्रकारा अणुव्रतं / दृश्यन्ते च सर्वत्र सपोरजानपदे कुलीनाः स्वस्वदारान् स्वाः स्वाः कुलवधूः सर्वप्रयत्नेन रक्षयन्तः शीलरक्षणद्वारा, श्रूयन्ते रामादयः सीतारूपस्ववनितापहारमहाव्यथाव्यथिता जाता महान् रणश्च तदर्थमेवादतः। यथाच व्यवस्थापिते सत्य एव मृषावादत्वनिर्णयः, सिद्ध एव च स्वस्वामित्वादिसम्बन्ध अदत्तादानस्यः तत्त्वेन निर्णयः, तथैवात्र सिद्ध एव परिणयनविधौ स्वपरदारनिर्णयः, युग्मिनां तु यद्यपि परकलनेष्वभिगमनस्यासम्भवः, परं परिणयनविधेरेवाभावान्न स्वपरकलत्रव्यवहार इति। ननु तियक्ष्वपि देशविरते. सत्त्वेनास्त्येव तत्र परदारेभ्यो विरतिनच तत्र कश्चित् परिणयनविधिरितिचेत् / सत्यं, नास्त्येव तिर्यक्षु परिणयनविधिः, परमस्ति परिग्रहणविधिस्तेषां प्रदपेक्ष्योच्यते तिर्यचोऽपि स्त्रीपराभवं न सहंत इति / ननु स्वदाराणां परदाराणां चाभिगमने कः प्रतिविशेषो? येन तुर्येऽणुव्रते परदारगमनं प्रतिषिध्यते, बदारसन्तोषशब्देन स्वकलत्राभिगमनं च नियम्यते, उभयत्रापि नवलक्षपञ्चेन्द्रियगर्भजासहख्यसम्मूर्छनजमनुष्यविराधनाया भावादिति चेत् / . सत्यं, नास्युभयत्रापि तादात्विकविराधनायामविशेषः, परं जैने हि शासने न केवला हिंसैव द्रव्यतो जायमाना कर्मतारतम्यहेतुः,किन्त्वध्यवसायस्थानानि, तानि च परदाराभिगमनरतस्य तादृशान्यधमाधमानि भवन्ति, येन श्रीमहानिशीथादिसूत्रेषु परदाराभिगमकारिणां 'अधमाधमपुरुषतया गणना कृता, क्लिष्टतरकर्मबन्धकारकतया च स तत्र वर्णितः / किश्चान्यत्रापि 'भक्खणे देवदव्वस्त, परइत्थीणं तु संगमे / सत्तम नरयं जंति, सत्तवाराइ गोयमे // 1 // ति स्पष्टतयाऽऽख्यायते / संयतिचतुर्थभङ्गो तु बोधिलाभस्यैव मुलेऽग्निदानं जातमित्याख्यायते / किञ्चपरदाराभिगमरतो हि तेषां रक्षणपरायणानां तदाश्रितानां तत्सम्बद्धानां च घातमन्विच्छन् कथंकारं स क्लिष्टतराध्यवसायवान स्यात् / अन्यच्च अपत्योत्पादकफलो हि कुलीनानां विवाहः, सच परदाराभिगमने समूलकाश निकष्येत / न च वाच्यं परिणयनविधिर्व्यावहारिकस्ततस्तमाश्रित्य स्वपरदारव्यवहारः, तमाश्रित्य पापबन्धस्य याच तत्त्वार्थवत्तौ पारदार्याणामधमत्वमुक्तं तत् कदाचित्तदनाचारभावमपेक्ष्य अत्र तु बहुशः पारदारिकत्वेऽधमत्वमिति / imasuRMAale Jun Gun Aaradhak Trust MadhyaNewsKaradiyodawnalorailend arasi Doge // 10 //

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48