Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 432
________________ शतकं-८, वर्गः-, उद्देशकः-९ ४२९ द्वीन्द्रियत्वादी पुनरेकेन्द्रियत्वे सति यत्सर्वबन्धान्तरं तज्जघन्येन द्वे क्षुल्लकभवग्रहणे त्रिसमयोने, कथम् ?, एकेन्द्रियसिमयया विग्रहगत्योत्पन्नस्तत्र च समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोरुक्तमन्तरं जातमिति। 'उक्कोसेणं दोसागरोवमसहस्साइंसंखेजवासमब्महियाइंति, कथम्?,अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्रच प्रथमसमये सर्वबन्धको भूत्वा द्वाविंशतिं वर्षसहस्राणिजीवित्वा मृतसकायिकेषु चोत्पन्नः, तत्रस सङ्ख्यातवर्षाभ्यधिकसागरोपमसहस्रद्वयरूपामुत्कृष्टसकायिककायस्थितिमतिवाह्य एकेन्द्रियेष्वेवोत्पद्य सर्वबन्धकोजात इत्येवं सर्वबन्धयोर्यथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभेदत्वेन सङ्ख्यातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति। 'देसबंधंतरंजहन्नेणंखुड्डागंभवग्गहणं समयाहिय'ति, कथम्?, एकेन्द्रियो देशबन्धकः सन् मृत्वा द्वीन्द्रियादषु क्षुल्लकभवग्रहणमनुभूयाविग्रहेण चागत्य प्रथमसये सर्वबन्धको भूत्वा द्वितीये देशबन्धकोभवति, एवंचदेशबन्धान्तरं क्षल्लकभवःसर्वबन्धसमयातिरिक्तः, 'उक्कोसेण'मित्यादि सर्वबन्धान्तरभावनोक्तप्रकारेण भावनीयमिति । अथपृथिवीकायिकबन्धान्तरं चिन्तयन्नाह-'जीवस्से'त्यादि, ‘एवंचेव'त्तिकरणात् 'तिसमयऊणाई'तिश्यम्, 'उक्कोसेणंअनंतं कालं'ति, इहकालानन्तत्वंवनस्पतिकायस्थितिकालापेक्षयाऽनन्तकालमित्युक्तं तद्विभजनार्थःमाह-'अनंताओ' इत्यादि, अयमभिप्रायः-तस्यानन्तस्य कालस्य समयेषु अवसर्पिण्युत्सर्पिणीसमयैरपहियमाणेष्वनन्ताअवसर्पिण्युत्स-पिण्यो भवन्तीति, 'कालओ'त्तिइदंकालापेक्षयामानं, 'खेत्तओत्ति क्षेत्रापेक्षयापुनरिदम्-'अनंता लोग'त्ति, अयमर्थःतस्यानन्तकालस्य समयेषु लोकाकाशप्रदेशैरपह्रियमाणेष्वनन्ता लोका भवन्ति, अथ तत्र कियन्तः पुद्गलपरावर्ता भवन्ति? इत्यत आह ____ 'असंखेजे' त्यादि पुलपरावर्त्तलक्षणं सामान्येन पुनरिदं-दशभिः कोटीकोटीभिरद्धापल्योपमा-नामेकं सागरोपमंदशभिः सागरोपमकोटीकोटीभिरवसर्पिणी, उत्सर्पिण्यप्येवमेव, ता अवसर्पिण्युत्सपिण्योऽनन्ताः पुद्गलपरावर्तः, एतद्विशेषलक्षणंतुइहैव वक्ष्यतीति, पुद्गलपरावर्तानामेवास-वयातत्वनियमनायाह-'आवलिए'त्यादि, असङ्ख्यातसमयसमुदायश्चावलिकेति ___'देसवंधंतरं' जहन्नेण मित्यादि, भावना त्वेवं-पृथिवीकायिको देशबन्धकः सन्मृतः पृथिवीकायिकेषु क्षुल्लकभवग्रहणं जीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिकेष्वेवोत्पन्नः, तत्रचसर्वबन्धसमयानन्तरं देशबन्धको जातः, एवंच सर्वबन्धसमयेनाधिकमेकं क्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति। ‘वणस्सइकाइयाणं दोन्निखुड्डाई'तिवनस्पतिकायिकानांजघन्यतः सर्वबन्धान्तरं द्वेक्षुल्लके भवग्रहणे एवं चेव'त्तिकरणात्रिसमयोने इतिश्यम्, एतद्भावनाच वनस्पतिकायिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये समयेच सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमयेच सर्ववन्धकोऽसावितिसर्वबन्धयोस्त्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरंभवति इति 'उक्कोसेण मित्यादि, अयंच पृथिव्यादिषु कायस्थितिकालः ‘एवं देसबंधंतरंपि'त्ति यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564