Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 538
________________ शतकं - १०, वर्ग:-, उद्देशकः - ३ ५३५ परद्धर्या परर्द्धिको वा 'विमोहित्ता पभु'त्ति 'विमोह्य' महिकाद्यन्धकारकरणेन मोहमुत्पाद्य अपश्यन्तमेव तं व्यतिक्रामेदिति भावः । 'एवं असुरकुमारेणवि तिन्नि आलावग'त्ति अल्पर्द्धिकमहर्द्धिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पर्द्धिकयोरपर इत्येवं त्रयः, 'ओहिएणं देवेणं' ति सामान्येन देवेन १, एवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः २, एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डकोऽन्यः ४ इत्येवं चत्वार एते दण्डकाः । अनन्तरं देवक्रियोक्ता, सा चातिविस्मयकारिणीति विस्मयकरं वस्त्वन्तरं प्रश्नयन्नाहमू. (४८३) आसस्स णं भंते! धावमाणस्स किं खुखुत्ति करेति ?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स य जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छइ जेणं आसस्स धावमाणस्स खुखुत्ति करेइ ॥ वृ. 'आसस्से'त्यादि, 'हिययस्स य जगयस्स य'त्ति हृदयस्य यकृतश्च - दक्षिणकुक्षिगतोदरावयवविशेषस्य 'अन्तरा' अन्तराले । अनन्तरं 'खुखु' त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रदर्शयितुमाह मू. (४८४) अह भंते ! आसइस्सामो सइस्सामो चिट्ठिस्सामो निसिइस्सामो तुयट्टिस्सामो वृ. ‘अह भंते!' इत्यादि, अथेति परिप्रश्नार्थः 'भंते! 'ति भदन्त ! इत्येवं भगवन्तं महावीरमामन्त्रय गौतमः पृच्छति - 'आसइस्सामो' त्ति आश्रयिष्यामो वयमाश्रयणीयं वस्तु 'सइस्सामो' त्ति शयिष्यामः ‘चिट्ठिस्सामो’त्ति ऊर्ध्वस्थानेन स्थास्यामः 'निसिइस्सामो' त्ति निषेत्स्याम उपवेक्ष्याम इत्यर्थः 'तुयट्टिस्सामो’त्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी ? इति योगः । मू. (४८५) आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी । पच्चक्खाणी भांसा भासा इच्छानुलोमा य ॥ वृ अनेन चोपलक्षणपरवचनेन भाषाविशेषाणमेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति - 'आमंतणि' गाहा, तत्र आमन्त्रणी हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाच्च सत्यादिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनादावुक्ता, एवमाज्ञापन्यादिकामपि । ‘आणवणि’त्ति आज्ञापनी कार्ये परस्य प्रवर्त्तनी यथा घटं कुरु 'जायणि 'त्ति याचनीवस्तुविशेषस्य देहीत्येवंमार्गणरूपा तथेति समुच्चये 'पुच्छणीय 'त्ति प्रच्छनी - अविज्ञातस्य संदिग्धस्य वाऽर्थःस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा 'पन्नवणि' त्ति प्रज्ञापनी - विनेयस्या-पदेशदानरूपा यथा"पाणवहाओ नियत्ता भवंति दीहाउया अरोगा य । 119 11 माई पन्नवणी पन्नत्ता वीयरागेहिं ॥" 'पच्चक्खाणीभास' त्ति प्रत्याख्यानी याचमानस्यादित्सा मे अतो मां मा याचस्वेत्यादि प्रत्याख्यानरूपा भाषा ‘इच्छानुलोम' त्ति प्रतिपादयितुर्या इच्छा तदनुलोमा - तदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः । मू. (४८६) अनभिग्गहिया भासा भासा य अभिग्गहंभि बोद्धव्वा । संसयकरणी भासा वोयडमव्वोयडा चेव ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564