Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 505
________________ ५०२ भगवती अङ्गसूत्रं ९/-/३३/४६४ सावाह - 'एवं खलु' इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अनेगजाइजरामरणरोगसारिरमाणसएकामदुक्खवेयणवसणसओवद्दवाभिभूए' त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारीराणि मानसिकानि च प्रकामं-अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनं, व्यसनानां च - चौर्यद्यूतादीनां यानि शतानि उपद्रवाश्च - राजचौर्यादिकृतास्तैरभिभूतो य स तथा, अत एव 'अधुवे 'त्ति न ध्रुवः–सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए' त्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्चन विद्यत इति यत्रासावनितिकः - अविद्यमाननियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्यादिभावात्, ‘असासए’त्ति क्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह - 'संज्ञे' त्यादि, किमुक्तं भवति ? इत्याह ‘अनिच्चे’त्ति अथवा प्राग् जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह ‘अनिच्चे’ ‘सडणपडणविद्धंसणधम्मे' त्तिशटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्वादेः खड्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा 'पुव्विं वित्ति विवक्षितकालात्पूर्वं वा 'पच्छा वि' त्ति विवक्षितकालात्पश्चाद्वा ‘अवस्सविप्पजहियव्वे'त्ति अवश्यं 'विप्रजहातव्यः' त्याज्यः 'जे केसणं जाणइ 'त्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थ, 'केपुव्विं गमणयाए 'त्ति कः पूर्वं पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोक उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्वं को वा पश्चान्प्रियत इत्यर्थः । 'पविसिहरूवं' त्ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं' लक्षणम् 'अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥ १ ॥” इत्यादि, व्यञ्जनं-मषतिलकादिकं तयोर्यो गुणः - प्रशस्तत्वं तेनोपपेतं सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं' उत्तमैर्बलवीर्यसत्त्वैर्युक्तं यत्तत्तथा, तत्र बलं - शारीरः प्राणो वीर्यं - मासोऽवष्टम्भः सत्त्वं - चित्तविशेष एव यदाह - "सत्त्वमवैक्लव्यकरमध्यवसानकरं च अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्वं-सत्ता तेन युक्तं यत्तत्था 'ससोहग्गगुणसमूसियं त्ति समौभाग्यं गुणसमुच्छ्रितं चेत्यर्थः ‘अभिजायमहक्खमं’ति अभिजातं - कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्म्मधारयः, अथवाऽभिजातानां मध्ये महत्-पूज्यं क्षमं - समर्थं च यत्तत्तथा, 'निरुवहयउदत्तलट्ठपंचिंदियपडुं ति निरुपहतानि - अविद्यमानवाताद्युपघातानि उदात्तानि - उत्तमवर्णादिगुणानि अत एव लष्टानिमनोहराणि पञ्चापीन्द्रियाणि पटूनि च - स्वविषयग्रहणदक्षाणि यत्र तत्तथा 'विविहवाहिसयसंनिकेयं'ति इह संनिकेतं –स्थानम् 'अट्ठियकट्टुट्ठियं' ति अस्थिकान्येव काष्ठानि काठिन्यसाधर्म्याततभ्यो यदुत्थितं तत्तथा । - 'छिराण्हारुजालओणद्धसंपिणद्धं' ति शिरा - नाड्यः ण्हारु' त्ति स्नायवस्तासां यज्जालंसमूहस्तेनोपद्धं संपिनद्धं–अत्यर्थं वेष्टितं यत्तत्तथा 'असुइकिलिट्ठे 'ति अशुचिना - अमेध्येन सङक्लिष्टं - दुष्टं यत्तत्तथा 'अनिट्ठवियसव्वकालसंठप्पयं' ति अनिष्ठापिता-असमापिता सर्वकालंसदा संस्थाप्यता-तत्कृत्यकरणं यस्य स तथा 'जराकुणिमजज्जरधरंव' जराकुणपश्च- जीर्णताप्रधानशबोजर्जरगृहंच-जीर्णगेहं समाहारद्वन्द्वाज्जराकुणपजर्जरगृहं, तदेवं किम्? इत्याह-'सडणे’त्यादि 'विपुले 'त्यादि, विपुलकुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः सर्वकाल Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564