Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 514
________________ शतर्क -९, वर्गः-, उद्देशकः - ३३ ५११ गावलिं पिणद्धंति एवं मुत्तावलिं कणगावलिं रयणावलिं अंगयाई केऊराई कडगाई तुडियाई कडिसुत्तयं दसमुद्दयाणंतयं वच्छसुत्तं मुरविं कंटमुरविं पालंबं कुंडलाई चूडामणि' ति तत्रैकावली-विचित्रमणिकमयी मुक्तावली - केवलमुक्ताफलमयीकनकावली - सौवर्णमणिकमयी रत्नावली-रत्नमयी अङ्गदं केयूरं च बाह्वाभरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थः तोक्ता तथाऽपीहाऽऽकारविशेषाद् भेदोऽवगन्तव्यः, कटकं - कलाचिकाभरणविशेषः त्रुटिकं - बाहुरक्षिका दशमुद्रिकानन्तकं- हस्ताङ्गुलीमुद्रिकादशकं वक्षः सूत्रं - हृदयाभरणभूतसुवर्णसङ्कलकं 'वेच्छासुत्तं 'ति पाठान्तरं तत्र वैकक्षिकासूत्रम् - उत्तरासङ्गपरिधानीयं सङ्कलकं मुरवीमुरजाकारमाभरणं कण्ठमुखी - तदेव कण्ठासन्नतरावस्थानं प्रालम्बं - झुम्बनकं, वाचनान्तरे त्वयमलङ्कारवर्णकः साक्षाल्लिखित एव ध्यत इति, 'रयणसंकडुक्कडं ति रत्नसङ्कटं च तदुत्कटं च- उत्कृष्टं रत्नसङ्कटोत्कटं ‘गंथिमवेढिमपूरिमसंघाइमेणं' ति इह ग्रन्थिमं- ग्रन्थननिर्वृत्तं सूत्रग्रथितमालादि वेष्टिमं - वेष्टितनिष्पन्नं पुष्पलम्बूसकादि पूरिमं - येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सङ्घातिमं तु यत्परस्परतो नालसङ्घातनेन सङ्घात्यते 'अलंकियविभूसियं' ति अलङ्कृतश्चासौ कृतालङ्कारोऽत एव विभूषितश्च - सञ्जातविभूषश्चेत्यलङ्कृतविभूषितस्तं । वाचनान्तरे पुनरिदमधिकं 'दद्दरमलयसुगंधिगंधिएहिं गायाई भुंकुंडेति 'त्ति दृश्यते, तत्र च दर्द्दरमलयाभिधापर्वतयोः सम्बन्धिस्तदुभ्दूतचन्दनादिद्रव्ययजत्वेन ये सुगन्धयो गन्धिकागन्धावासास्ते तथा, अन्ये त्वाहुः - दर्द्दरः - चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्वा वा ये 'मलय'त्ति मलयोद्भवत्वेन मलयजस्य - श्रीखण्डस्य सम्बन्धिनः सुगन्धयोगन्धिकागन्धास्ते तथा तैर्गात्राणि 'भुकुंडेंति' त्ति उद्धृलयन्ति । ‘अनेगखंभसयसन्निविट्टं’ति अनेकेषु स्तम्भशतेषु सन्निविष्टा या सा तथा अनेकानि वा स्तम्भशतानि संनिविष्टानि यस्यां सा तथा तां 'लीलट्ठियसालिभंजियागं' ति लीलास्थिताः शालिभञ्जिकाः - पुत्रिकाविशेषा यत्र सा तथा तां, वाचनान्तरे पुनरिदमेवं दृश्यते - 'अब्मुग्गयसुक - यवइरवेइयतोरणवररइयलीलठ्ठियसालिभंजियागं 'ति तत्र चाभ्युद्गते - उच्छ्रिते सुकृतव - जवेदिकायाः सम्बन्धिनि तोरणवरे रचिता लीलास्थिता शालभञ्जिका यस्यां सा तथा तां 'जहा रायप्पसेणइज्जे विमाणवन्नओ’त्ति एवमस्या अपि वाच्य इत्यर्थः स चायम्- 'ईहामियउसभतुरगनरमगरविहगवालकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं' ईहामृगादिभिभक्तिभि - विच्छित्तमिश्चित्रा - चित्रवती या सा तथा तां, तत्र ईहामृगा - वृकाः ऋषभाः वृषभाः व्यालकाः- श्वापदा भुजङ्गा वा किन्नरा-देवविशेषाः रुरवो - मृगविशेषाः सरभाः - परासराः वनलता - चम्पकलस्रादिकाः पद्मलता - मृणालिकाः शेषपदानि प्रतीतान्येव 'संभुग्गयवइरवेड- यापरिगयाभिरामं स्तम्भेषु उद्गता- निविष्टा या वज्रवेदिका तया परिगता - परिकरिता अत एवाभिरामा च - रम्या या सा तथा तां 'विज्जाहरजमलजुयलजंतजुत्तंपिव' विद्याधरयोर्यद् यमलं-सम श्रेणीकं युगलं- द्वयं तेनेव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेण युक्ता या सा था ताम्, आर्षत्वाच्चैवंविधः समासः । 'अच्चीसहस्समालिणीयं' अर्च्चिसहमालाः - दीप्तिसहस्राणामावल्यः सन्ति यस्यां सा तथा, स्वार्थिः ककप्रत्यये च अर्द्धिः सहस्रमालिनीका तां, 'रूवगसहस्सकलियं' 'भिसमाणं' दीप्यमानां For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564