Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 520
________________ शतकं - ९, वर्ग:-, उद्देशक:- ३३ ५१७ इत्यादि, 'हराहि' त्ति गृहाण आराधना - ज्ञानादिसम्यकपालना सैव पताका जयप्राप्तनटग्राह्या आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं - मल्लयुद्धद्रष्टृमहाजनमध्यं तत्र, "हंता परीसहचमूं ति हत्वा परीषहसैन्यं, अथवा ‘हन्ता' घातकः परीषहचम्वा इति विभक्तिपरिणामात् शीलार्थःकतृन्नन्तत्वाद्वा हन्ता परीषहचमूमिति 'अभिभविय'त्ति अभिभूय - जित्वा 'गामकंटकोवसग्गाणं' ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः णं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किंबहुना ? - 'धम्मे ते ' इत्यादि । ‘नयणमालासहस्सेहिं’ति नयनमालाः - श्रेणीभूतजननेत्रपङ्कयः 'एवं जहा उववाइए 'त्ति अनेन यत्सूचितं तदिदं - 'वयणमासहस्लेहिं अभिथुव्वमाणे २ हिययमालासहस्सेहिं अभिनंदिज्रमाणे २’जनमनःसमूहैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे २' एतस्य पादमूले वत्स्याम इत्यादिभिर्जनविकल्पैर्विशेषण स्पृश्यमान इत्यर्थः 'कंतिरूवसोहग्गजोव्वणगुणेहिं पत्थिज्रमाणे २ ' कान्त्यादिभिर्गुणैर्हेतुभूतैः प्रार्ध्यमानो भर्तृतया स्वामितया वा जनैरिति 'अंगुलिमासहस्सेहिं दाइजमाणे २' 'दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छेमाणे २ भवणभित्ती (पन्ती) सहस्साइं ' 'समइच्छिमाणे २' समतिक्रामन्नित्यर्थः ‘तंतीलतालगीयवाइयरवेणं' तन्त्री - वीणा तलाः - हस्ताः तालाः- कांसिकाः तलताला वा - हस्ततालाः गीतवादिते-प्रतीते एषां यो रवः स तथा तेन 'महुरेणं मणहरेणं' 'जय २ सद्दुग्घोस-मीसएणं' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन तथा 'मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावकलोकसम्बन्धिना नूपुरादिभूषणसम्बन्धिना वा 'अप्पडिवुज्झमाणे'त्ति अप्रतिबुद्धयमानः- शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानो वा - अनपहियमाणमानसो वैराग्यगतमानसत्वादिति । ‘कंदरगिरिविवरकुहरगिरिवरपासादुद्धधणभवणदेवकुलसिंघाडगतिगचउक्कचच्चर आरामुज्जाणकाणणसभप्पवप्पदेसदेसभागे' त्ति कन्दराणि - भूमिविवराणि गिरीणां विवरकुहराणि - गुहाः पर्वतान्तराणि वा गिरिवराः - प्रधानपर्वताः प्रासादाः - सप्तभूमिकादयः ऊर्द्धधनभवनानिउच्चाविरलगेहानि देवकुलानि - प्रतीतानि श्रृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाःपुष्पजातिप्रधाना वनखण्डाः उद्यानानि - पुष्पादिमवृक्षयुक्तानि काननानि - नगराद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा - जलदानस्थानि एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तानू, प्रदेशा- लघुतरा भागाः देशास्तु महत्तराः, अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते - 'कंदरदरिकुहरविवरगिरिपायारट्टालचरियदारगोउरपा सायदुवारभवणदेवकुल आरामुज्जाकाणणसभपएस' त्ति प्रतीतार्थःश्चायं, ‘पडिसुयाससहस्ससंकुले करेमाणे' त्ति प्रतिश्रुच्छतसहस्रसङ्कुलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेंतोऽवरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइलं णभं करेंते' सुगन्धीनां - वरकुसुमानां चूर्णानां च 'उव्विद्ध' ऊर्द्धगतो यो वासरेणुः - वासकं रजस्तेन मलिनं यत्तत्तथा । 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवनिववहेण जीवलोगमिव वासयंते' कालागुरुगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं - वरचीडा तुरुक्कंसिल्हकं धूपः - तदन्यः एतल्लक्षणो वा एषामेतस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564