Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-१०, वर्गः-, उद्देशकः-१
५२९ एवं जीवप्रदेशा अपि, 'जे अस्वी अजीवा ते सत्तविह'त्ति, कथं ?, नोधम्मत्थिकाए, अयमर्थः-धर्मास्तिकायः समस्त एवोच्यते, सच प्राचीदिग्न भवति, तदेकदेशभूतत्वात्तस्याः, किन्तुधर्मास्तिकायस्य देशः, सातदेकदेशभागरूपेति १, तथा तस्यैव प्रदेशाः सा भवति, असङ्ख्येयप्रदेशात्मकत्वात्तस्याः२, एवमधमास्तिकायस्यदेशःप्रदेशाश्च ३-४, एवामाकाशास्तिकायस्यापि देशः प्रदेशाश्च ५-६, अद्धासमयश्चेति७, तदेवं सप्तप्रकारारूप्यजीवरूपा ऐन्द्री दिगिति।
'अग्गेयीण मित्यादप्रश्नः, उत्तरे तुजीवा निषेधनीयः, विदिशामेकप्रदेशेचजीवानामवगाहाभावात्, असङ्ख्यातप्रदेशावगाहित्वात्तेषां, तत्र 'जे जीवदेसा ते नियगा शगेदियदेस'त्ति एकेन्द्रियाणां सकललोकव्यापकत्वादाग्नेय्यां नियमादेकेन्द्रियदेशाः सन्तीति, 'अहवे'त्यादि, एकेन्द्रियाणां सकललोकव्यापकत्वादेव द्वीन्द्रियाणांचाल्पत्वेन कचिदेकस्यापितरण सम्भवादुच्यते एकेन्द्रियाणां देशाश्च द्वीन्द्रियस्य देशश्चेति द्विकयोगे प्रथमः, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदे त्वेकवचनं देशपदे पुनर्बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो द्वयादिभिर्देशैस्तां स्पृशति तदा स्यादिति, अथवैकेन्द्रियपदं तथैव द्वीन्द्रियपदं देशपदं च बहुवचनान्तमिति तृतीयः, स्थापना-‘एगि० देसा ३ वेई १ देसे एगि० देसा ३ बेइं १ देसा ३ एगि० देसा ३ बेइं० ३ देसा ३
एवं त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियैः सह प्रत्येकंभङ्गकत्रयं दृश्यम्, एवंप्रदेशपक्षोऽपि वाच्यो, नवरमिह द्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रासङ्ख्यातास्ते भवन्ति, लोकव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप प्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्रदेशानामसङ्ख्यातानामवगाढत्वाद्, अतः सर्वेषु द्विकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाह-' आइल्लविरिहओ'त्ति द्विकभङ्ग इति शेषः । ___ 'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा इंदाए'त्ति समानवक्तव्यत्वात्, ‘एवं तमावि'त्ति विमलावत्तमाऽपिवाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्देशादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते? इति, उच्यते, दण्डाद्यवस्थं तमाश्रित्य तस्य देशो देशाः प्रदेशाश्च विवक्षायां तत्रापि युक्ता एवेति।
अथ तमायां विशेषमाह-'नवर'मित्यादि, ‘अद्धासमयो न भन्नइत्ति समयव्यवहारो हि सञ्जरिष्णुसूर्यादिप्रकाशकृतः, स च तमाया नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः ।
अथ विमलायामपि नास्त्यसाविति कथं तत्र समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्क्रान्तिद्वारेणतत्र सञ्चरिष्णुसूर्यादिप्रकाशभावादिति
अनन्तरंजीवादिरूपा दिशः प्ररूपिताः,जीवाश्चशरीरिणोऽपि भवन्तीति शरीरप्ररूप-णायाह
मू. (१७६) कतिणंभंते! सरीरा पन्नत्ता?, गोयमा! पंच सरीरापन्नत्ता, तंजहा-ओरालिए जाव कम्मए । ओरालियसरीरे णं भंते ! कतिविहे पन्नत्ते?, एवं ओगाहणसंठाणं निरवसेसं भाणियव्वं जाव अप्पाबहुगंति । सेवं भंते ! सेवं भंतेत्ति।
वृ. 'कइ णं भंते !'इत्यादि, ‘ओगाहणसंठाणं'ति प्रज्ञापनायामेकविंशतितमं पदं, 534
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564