Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-१०, वर्गः-, उद्देशकः-२
५३१ अथवा विचिन्त्य रागादिविकल्पादित्यर्थः, अथवा विरूपा कृति-क्रिया सरागत्वात् यस्मिन्नवस्थाने तद्विकृति यथा भवतीत्येवं स्थित्वा पंथेत्तिमार्गे 'अवयक्खमाणस्स'त्तिअवका
ह्नतोऽपेक्षमाणस्य वा, पथिग्रहणस्य चोपलक्षणत्वादन्यत्राप्याधारे स्थित्वेति द्रष्टव्यं, 'नो ईरियावहिया किरिया कज्जइ तिन केवलयोगप्रत्यया कर्मबन्धक्रिया भवतिसकषायत्वात्तस्येति
__ 'जस्सणं कोहमाणमायालोभा' इह ‘एवंजहे'त्याद्यतिदेशादिदं दृश्यं-'वोच्छिन्नाः भवंति तस्सणंईरियावहिया किरिया कज्जइ, जस्सणंकोहमाणमायालोभाअवोरीयंरीयमाणस्स संपराइया किरिया कज्जइत्ति व्याख्या चास्य प्राग्वदिति।
'सेणंउस्सुत्तमेव'त्तिसपुनरुत्सूत्रमेवागमातिक्रमणतएव ‘रीयइत्तिगच्छति । 'संवुडस्से'त्याधुक्तविपर्ययसूत्रं, तत्र च 'अवीइ'त्ति अवीचिमतः' अकषायसम्बन्धवतः ‘अविविच्य' वा अपृथग्भूय यथाऽऽख्यातसंयमात्, अविचिन्त्य वा रागविकल्पाभावेनेत्यर्थः अविकृति वायथा भवतीति
अनन्तरं क्रियोकता, क्रियावतां च प्रायो योनिप्राप्तिर्भवतीति योनिप्ररूपणायाह
मू. (४७८) कइविहा णं भंते ! जोणी पन्नत्ता ?, गोयमा ! तिविहा जोणी पन्नत्ता, तंजहा-सीया उसिणा सीतोसिणा, एवं जोणीपयं निरवसेसंभाणियव्वं ॥
वृ. 'कतिविहा ण'मित्यादि, तत्र च 'जोणि'त्ति ‘यु मिश्रणे' इतिवचनाद् युवन्तितैजकार्मणशरीरवन्त औदारिकादिशरीरयोग्यस्कन्धसमुदायेन मिश्रीभवन्ति जीवा यस्यां सा योनि, साच त्रिविधा शीतादिभेदात्, तत्र ‘सीय'त्तिशीतस्पर्शा ‘उसिण'त्तिउष्णस्पर्शा सीओसिण त्तिद्विस्वभावा एवंजोणीपयंनिरवसेसंभाणियव्यंति योनिपदंचप्रज्ञापनायांनवमंपदं, तच्चेदं
_ 'नेरइयाणं भंते! किं सीयाजोणी उसिणा जोणी सीओसिणा जोणी?, गोयमा ! सीयावि जोणी उसिणावि जोणी नो सीओसिणा जोणी'त्यादि, अयमर्थः-'सीयावि जोणि'त्ति आद्यासु तिसृषु नरकपृथिवीषु चतुर्थांचकेषुचिन्नरकावासेषु नारकाणां यदुपपातक्षेत्रंतच्छीतस्पर्शपरिणतमिति तेषां शीताऽपि योनि, 'उसिणाविजोणि'त्तिशेषासुपृथिवीषु चतुर्थःपृथिवीनरकावासेषु चकेषुचिन्नारकाणां यदुपपातक्षेत्रंतदुष्णस्पर्शपरिणतमिति तेषामुष्णाऽपि योनि, नो सीओसिणा जोणित्तिनमध्यमस्वभावायोनिस्तथास्वभावत्वात्, शीतादियोनिप्रकरणार्थःसङ्ग्रहस्तुप्रायेणैवं॥१॥ “सीओसिणजोणीया सव्वे देवा य गब्भवक्कंती।
उसिणा य तेउकाए दुह नरए तिविह सेसेसु ॥"
___-'गब्भवक्कंति'त्ति गर्भोत्पत्तिकाः।तथा-'कतिविहाणंभंते! जोणीपन्नत्ता?,गोयमा! तिविहाजोणी पन्नत्ता,तंजहा-सच्चित्ता अचित्ता मीसिया'इत्यादि, सच्चित्तादियानिप्रकरणार्थःसङ्ग्रहस्तु प्रायेणैवम्॥२॥ “अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं।
___मीसा य गमवासे तिविहा पुण होइ सेसेसु ।" सत्यप्येकेन्द्रियसूक्ष्मजीवनिकायसम्भवे नारकदेवानां यदुपपातक्षेत्रं तन्न केनचिज्जीवेन परिगृहीतमित्यचित्ता तेषां योनि, गर्भवासयोनिस्तु मिश्रा शुक्रशोणितपुद्गलानामचित्तानां, गर्भाशयस्यसचेतनस्यभावादिति, शेषाणांपृथिव्यादीनां संमूर्छनजानांच मनुष्यादीनामुपपातक्षेत्रे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564