________________
शतकं - ९,
वर्ग:-, उद्देशक:- ३३
५१७
इत्यादि, 'हराहि' त्ति गृहाण आराधना - ज्ञानादिसम्यकपालना सैव पताका जयप्राप्तनटग्राह्या आराधनापताका तां त्रैलोक्यमेव रङ्गमध्यं - मल्लयुद्धद्रष्टृमहाजनमध्यं तत्र, "हंता परीसहचमूं ति हत्वा परीषहसैन्यं, अथवा ‘हन्ता' घातकः परीषहचम्वा इति विभक्तिपरिणामात् शीलार्थःकतृन्नन्तत्वाद्वा हन्ता परीषहचमूमिति 'अभिभविय'त्ति अभिभूय - जित्वा 'गामकंटकोवसग्गाणं' ति इन्द्रियग्रामप्रतिकूलोपसर्गानित्यर्थः णं वाक्यालङ्कारे अथवा 'अभिभविता' जेता ग्रामकण्टकोपसर्गाणामिति, किंबहुना ? - 'धम्मे ते ' इत्यादि ।
‘नयणमालासहस्सेहिं’ति नयनमालाः - श्रेणीभूतजननेत्रपङ्कयः 'एवं जहा उववाइए 'त्ति अनेन यत्सूचितं तदिदं - 'वयणमासहस्लेहिं अभिथुव्वमाणे २ हिययमालासहस्सेहिं अभिनंदिज्रमाणे २’जनमनःसमूहैः समृद्धिमुपनीयमानो जय जीव नन्देत्यादिपर्यालोचनादिति भावः 'मणोरहमालासहस्सेहिं विच्छिप्पमाणे २' एतस्य पादमूले वत्स्याम इत्यादिभिर्जनविकल्पैर्विशेषण स्पृश्यमान इत्यर्थः 'कंतिरूवसोहग्गजोव्वणगुणेहिं पत्थिज्रमाणे २ ' कान्त्यादिभिर्गुणैर्हेतुभूतैः प्रार्ध्यमानो भर्तृतया स्वामितया वा जनैरिति 'अंगुलिमासहस्सेहिं दाइजमाणे २' 'दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साइं पडिच्छेमाणे २ भवणभित्ती (पन्ती) सहस्साइं ' 'समइच्छिमाणे २' समतिक्रामन्नित्यर्थः ‘तंतीलतालगीयवाइयरवेणं' तन्त्री - वीणा तलाः - हस्ताः तालाः- कांसिकाः तलताला वा - हस्ततालाः गीतवादिते-प्रतीते एषां यो रवः स तथा तेन 'महुरेणं मणहरेणं' 'जय २ सद्दुग्घोस-मीसएणं' जयेतिशब्दस्य यद् उद्घोषणं तेन मिश्रो यः स तथा तेन तथा 'मंजुमंजुणा घोसेणं' अतिकोमलेन ध्वनिना स्तावकलोकसम्बन्धिना नूपुरादिभूषणसम्बन्धिना वा 'अप्पडिवुज्झमाणे'त्ति अप्रतिबुद्धयमानः- शब्दान्तराण्यनवधारयन् अप्रत्युह्यमानो वा - अनपहियमाणमानसो वैराग्यगतमानसत्वादिति ।
‘कंदरगिरिविवरकुहरगिरिवरपासादुद्धधणभवणदेवकुलसिंघाडगतिगचउक्कचच्चर आरामुज्जाणकाणणसभप्पवप्पदेसदेसभागे' त्ति कन्दराणि - भूमिविवराणि गिरीणां विवरकुहराणि - गुहाः पर्वतान्तराणि वा गिरिवराः - प्रधानपर्वताः प्रासादाः - सप्तभूमिकादयः ऊर्द्धधनभवनानिउच्चाविरलगेहानि देवकुलानि - प्रतीतानि श्रृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामाःपुष्पजातिप्रधाना वनखण्डाः उद्यानानि - पुष्पादिमवृक्षयुक्तानि काननानि - नगराद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा - जलदानस्थानि एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तानू, प्रदेशा- लघुतरा भागाः देशास्तु महत्तराः, अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते - 'कंदरदरिकुहरविवरगिरिपायारट्टालचरियदारगोउरपा सायदुवारभवणदेवकुल आरामुज्जाकाणणसभपएस' त्ति प्रतीतार्थःश्चायं, ‘पडिसुयाससहस्ससंकुले करेमाणे' त्ति प्रतिश्रुच्छतसहस्रसङ्कुलान् प्रतिशब्दलक्षसङ्कुलानित्यर्थः कुर्वन् २ निर्गच्छतीति सम्बन्धः 'हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयसद्दमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरेंतोऽवरं समंता सुयंधवरकुसुमचुन्नउविद्धवासरेणुमइलं णभं करेंते' सुगन्धीनां - वरकुसुमानां चूर्णानां च 'उव्विद्ध' ऊर्द्धगतो यो वासरेणुः - वासकं रजस्तेन मलिनं यत्तत्तथा ।
'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवनिववहेण जीवलोगमिव वासयंते' कालागुरुगन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं - वरचीडा तुरुक्कंसिल्हकं धूपः - तदन्यः एतल्लक्षणो वा एषामेतस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org