Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 518
________________ शतकं-९, वर्गः-, उद्देशकः-३३ ५१५ योगः 'ईसिंउच्छंगउन्नयविसालधवलदंताणं ति उत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवर्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविठ्ठदंतोवसोहियाणं तिइह काञ्चनकोशी-सुवरणमयीखोला, रथवर्णकेतु सज्झयाणंसपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरा तुपताका 'सखिंखिणीहेमजालपेरंतपरिक्खित्ताणं ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्णमयस्तदाभरणविशेषस्तेन पर्यन्तेषुपरिक्षिप्ता येते तथा, तेषां 'सनंदिघोसाणंति इह नन्दी-द्वादशतूर्यसमुदायः, तानि चेमानि॥१॥ “भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७। काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो।" इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाणं'ति हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि- सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराणं ति सुष्ठुसंविद्धानिचक्राणिमण्डलाश्ववृत्ताधारायेषां तेतथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं'तिक्वचिद्दश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं ति क्वचिद्दश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ताधुरो येषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां ते तथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताणं'ति आकीर्णै-जात्यैर्वरतुरगैः सुष्टुसंप्रयुक्ताये तेततातेषां 'कुसलनरच्छेयसारहिसुसंपग्गहियाणं'ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिमिश्च-दक्षप्राजितृभिसुष्ठु संप्रगृहीता येतेतथा तेषां सरसयबत्तीसतोणपरिमंडियाणं'ति शरशतप्रधाना येद्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां ‘सकंकडवडेंसगाणं ति सह कङ्कट:-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरावरणभरियजुद्धसज्जाणं'ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थःमेवेति। अथाधिकृतवाचनाऽनुश्रियते-'तयानंतरंचणंबहवे उग्गा' इत्यादि, तत्र 'उग्राः'आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैवव्यवहृतास्तद्वंश्याश्च ‘जहा उववाइए'त्ति करणादिदं श्यं-राइन्नाखत्तियाइक्खागा नाया कोरव्वा' इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्चक्षत्रियाश्चप्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरव्य'त्ति कुरवः-कुरुवंशजाः, अथकियदन्तमिदंसूत्रमिहाध्येयम् ? इत्याह-'जाव महापुरिसवग्गुरापरिक्खित्ते'त्ति वागुरा-मृगबन्धनं वागुरेववागुरा सर्वतः परिवारणसाधात् पुरुषाश्चते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया परिक्षिप्ता ये ते तथा 'महंआस'त्ति महाश्वाः, किम्भूताः? इत्याह___'आसवरा अश्वानांमध्येवराः 'आसवार'त्तिपाठान्तरंतत्र 'अश्ववाराः' अश्वारूढपुरुषाः 'उभओपासिं'तिउभयोः पार्श्वयोः 'नाग'त्तिनागाहस्तिनः नागवरा-हस्तिनांप्रधानाः 'रहसंगेल्लित्ति रथसमुदायः ‘अब्भुग्गयभिंगारे'त्ति अभ्युद्गतः-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा पग्गहियतालियंटे प्रगृहीतंतालवृन्तंयंप्रतिसतथा ऊसवियसेयच्छत्ते उच्छ्रितश्वेतच्छत्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564