________________
शतकं-९, वर्गः-, उद्देशकः-३३
५१५ योगः 'ईसिंउच्छंगउन्नयविसालधवलदंताणं ति उत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवर्तित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविठ्ठदंतोवसोहियाणं तिइह काञ्चनकोशी-सुवरणमयीखोला, रथवर्णकेतु सज्झयाणंसपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरा तुपताका 'सखिंखिणीहेमजालपेरंतपरिक्खित्ताणं ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्णमयस्तदाभरणविशेषस्तेन पर्यन्तेषुपरिक्षिप्ता येते तथा, तेषां 'सनंदिघोसाणंति इह नन्दी-द्वादशतूर्यसमुदायः, तानि चेमानि॥१॥ “भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७।
काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो।"
इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाणं'ति हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि- सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराणं ति सुष्ठुसंविद्धानिचक्राणिमण्डलाश्ववृत्ताधारायेषां तेतथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं'तिक्वचिद्दश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराणं ति क्वचिद्दश्यते तत्र सुष्ठु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ताधुरो येषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां ते तथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताणं'ति आकीर्णै-जात्यैर्वरतुरगैः सुष्टुसंप्रयुक्ताये तेततातेषां 'कुसलनरच्छेयसारहिसुसंपग्गहियाणं'ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिमिश्च-दक्षप्राजितृभिसुष्ठु संप्रगृहीता येतेतथा तेषां सरसयबत्तीसतोणपरिमंडियाणं'ति शरशतप्रधाना येद्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां ‘सकंकडवडेंसगाणं ति सह कङ्कट:-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरावरणभरियजुद्धसज्जाणं'ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थःमेवेति।
अथाधिकृतवाचनाऽनुश्रियते-'तयानंतरंचणंबहवे उग्गा' इत्यादि, तत्र 'उग्राः'आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैवव्यवहृतास्तद्वंश्याश्च ‘जहा उववाइए'त्ति करणादिदं
श्यं-राइन्नाखत्तियाइक्खागा नाया कोरव्वा' इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्चक्षत्रियाश्चप्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरव्य'त्ति कुरवः-कुरुवंशजाः, अथकियदन्तमिदंसूत्रमिहाध्येयम् ? इत्याह-'जाव महापुरिसवग्गुरापरिक्खित्ते'त्ति वागुरा-मृगबन्धनं वागुरेववागुरा सर्वतः परिवारणसाधात् पुरुषाश्चते वागुरा च पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तया परिक्षिप्ता ये ते तथा 'महंआस'त्ति महाश्वाः, किम्भूताः? इत्याह___'आसवरा अश्वानांमध्येवराः 'आसवार'त्तिपाठान्तरंतत्र 'अश्ववाराः' अश्वारूढपुरुषाः 'उभओपासिं'तिउभयोः पार्श्वयोः 'नाग'त्तिनागाहस्तिनः नागवरा-हस्तिनांप्रधानाः 'रहसंगेल्लित्ति रथसमुदायः ‘अब्भुग्गयभिंगारे'त्ति अभ्युद्गतः-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा पग्गहियतालियंटे प्रगृहीतंतालवृन्तंयंप्रतिसतथा ऊसवियसेयच्छत्ते उच्छ्रितश्वेतच्छत्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org