Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
भगवती अङ्गसूत्रं ९/-/३३ / ४६५
‘भिब्भिसमाणां’ अत्यर्थं दीप्यमानां 'चक्खुलोयणलेसं' चक्षु कर्तृलोकने- अवलोकने सति लिशतीवदर्शनीयत्वातिशयात् श्लिष्यतीव यस्यां सा तथा तां 'सुहफासं सस्सिरीयरूवं' सशोभरूपकां 'घंटावलिचलियमहुरमणहरसरं ' घण्टावल्याश्चलिते-चलने मधुरो मनोहरश्च स्वरो यस्यां सा तथा तां 'सुहं कंतं दरिसणिज्जं निउणोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन-शिल्पिना ओपितं - परिकर्म्मितं 'मिसिमिसंतं' चिकचिकायमानं मणिरत्नानां सम्बन्धि यद् घण्टिकाजालं- किङ्किणीवृन्दं तेन परिक्षिप्ता परिकरिता या सा तथा तां, वाचनान्तरे पुनरयं वर्णकः साक्षाद् ध्यत एवेति ।
'केसालंकारेणं' ति केशा एवालङ्कारः केशालङ्कारस्तेन, यद्यपि तस्य तदानीं केशाः कल्पिता इति केशालङ्कारो न सम्यक् तथाऽपि कियतामपि सद्भावात्तद्भाव इति, अथवा केशानामलङ्कारः पुष्पादि केशालङ्कारस्तेन, 'वत्थालंकारेणं'ति वस्त्रलक्षणालङ्कारेण 'सिंगारागारचारुवेस' त्ति श्रृङ्गारस्य- रसविशेषस्या गारमिव यश्चारुश्च वेषो - नेपथ्यं यस्याः सा तथा, अथवा श्रृङ्गारप्रधान आकारश्चारुश्च वेषो यस्याः सा तथा 'संगते' त्यादौ यावत्करणादेवं दृश्यं - 'संगयगयहणियभणियचिट्ठियविलाससंलाससंलावुल्लावनिउणजुत्तोवयारकुसल 'त्ति तत्र च सङ्गतेषु गतादिषु निपुणा युक्तेषूपचारेषु कुशला च या सा तथा, इह च विलासी नेत्रविकारो, यदाह"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥ १ ॥” इति - तथा संलापो -मिथोभाषा उल्लापस्तु काकुवर्णनं, यदाह"अनुलापो मुहुर्भाषा, प्रलापोऽनर्थः कं वचः ।
काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥ १ ॥” इति 'सुन्दरथण' इत्यनेन 'सुंदरथणजहणवयणकरचरणणयणलावन्नरूवजोव्वणगुणोववेय'त्ति सूचितं, तत्र च सुन्दरा ये स्तनादयोऽर्थास्तैरुपेता या सा तथा, लावण्यं चेह स्पृहणीयता रूपं-आकृतिर्यौवनं-तारुण्यं गुणा - मृतुस्वरत्वादयः 'हिमरययकुमुयकुंदेंदुप्पगासं' ति हिमं च रजतं च कुमुदं च कुन्दश्चेन्दुश्चेति द्वन्द्वस्तेषामिव प्रकाशो यस्य तत्तथा 'सकोरेंटमल्लदामं' ति सकोरेण्टकानि - कोरण्टपुष्पगुच्छयुक्तानि माल्यदामानि - पुष्पमाला यत्र तत्तथा 'नणामणिकणगरयणविमलमहरिहतवणिज्जउज्जलविचित्तदंडाओ' ति नानामणिकनकरत्नानां विमलस्य महार्हस्य महार्घस्य वा तपनीयस्य च सत्कावुज्वलौ विचित्रौ दण्डकौ ययोस्ते तथा, अथात्र कनकतपनीययोः को विशेषः ?
५१२
119 11
उच्यते, कनकं पीतं तपनीयं रक्तमिति, 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येके 'संखंककुंददगरयअमयमहियफेणपुंजसंनिगासाओ' त्ति शङ्खाङ्ककुन्ददकरजसाममृतस्य मथितस्य सतो यः फेनपुञ्जस्तस्य च संनिकाशे-सहशे ये ते तथा, इह चाङ्को रत्नविशेष इति, 'चामराओ त्ति यद्यपि चामरशब्दो नपुंसकलिङ्गो रूढस्तथाऽपीह स्त्रीलिङ्गतया निर्द्दिष्टस्तथैव कचिद्रूढत्वादिति 'मत्तगयमहामुहाकिइसमाणं' ति मत्तगजस्य यन्महामुखं तस्य याऽऽकृति - आकारस्तया समानं यत्तत्तथा 'एगाभरणवसणगहियणिज्जोय' त्ति एकः - एकाध्श आभरणवसनलक्षणो गृहीतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564