Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
५०४
भगवती अङ्गसूत्रं ९/-/३३ /४६४
प्रतीताः 'सीलप्पवाल' त्ति विद्रुमाणि 'रत्तरयण' त्ति पद्मरागास्तान्यादिर्यस्त तत्तथा 'संतसारसावएजे' त्ति 'संत' त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार' त्ति प्रधानं 'सावएज' त्ति स्वापतेयं द्रव्यं, ततः कर्मधारयः, किम्भूतं तत् ? इत्याह
'अलाहि’त्ति अलं-पर्याप्तं भवति 'याव’त्ति यत्परिमाणम् 'आसत्तमाओ कुलवंसाओ' त्ति आसप्तमात् कुलवंश्यात्-कुललक्षणवंशे भवः कुलवंश्यस्तस्मात्, सप्तमं पुरुषं यावदित्यर्थः 'पकामं दाउ'न्ति अत्यर्थं दीनादिभ्यो दातुम्, एवं भोक्तुं स्वयं भोगेन 'परिभाएउं' ति परिभाजयितुं दायादादीनां, प्रकामदानादिषु यावत् स्वापतेयमलं तावदस्तीति हृदयम् 'अग्गिसाहिए' इत्यादि, अग्न्यादेः साधारणमित्यर्थः 'दाइयसाहिए' त्ति दायादाः पुत्रादयः एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह - ' अग्गिसामन्ने' इत्यादि, 'विसयाणुलोमाहिं' ति विषयाणां - शब्दादीनामनुलोभाः - तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'आघवणाहि य'त्ति आख्यापनाभि-सामान्यतो भणनैः 'पन्नवणाहिय'त्ति प्रज्ञापनाभिश्च - विशेषकथनैः 'सन्नवणाहि य'त्ति सञ्ज्ञापनाभिःश्च- सम्बोधनाभिः 'विन्नवणाहिय'त्ति विज्ञापनाभिश्च - विज्ञप्तिकाभि सप्रणयप्रार्थः नैः, चकाराः समुच्चयार्थाः, 'आघवित्तएव 'त्ति आख्यातुम्, एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिं ति विषयाणां प्रतिकूलाः- तत्परिभोगनिषेधकत्वेन प्रतिलोभायास्तास्तथा ताभिः 'संजमभउव्वेयणकरीहिं' ति संयमाद्भयं भीति उद्वेजनं च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः ।
'सच्चे' त्ति सद्भ्यो हितत्वात् 'अनुत्तरे'त्ति अविद्यमानप्रधानतरम्, अन्यदपि तथाविधं भविष्यतीत्याह- 'केवल 'त्ति केवलं अद्वितीयं 'जहावस्सए' त्त एवं चेदं तत्र सूत्रं - 'पडिपुन्ने' अपवर्गप्रापकगुणैर्भृतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिकं वा न्यायानपेतत्वात् 'संसुद्धे' सामस्त्येन शुद्धं 'सल्लगत्तणे' मायादिशल्यकर्त्तनं 'सिद्धिमग्गे' हितार्थः प्राप्त्युपायः 'मुत्तिमग्गे' अहितविच्युतेरुपायः निज्जाणमग्गे' सिद्धिक्षेत्रगमनोपायः, 'निव्वाणमग्गे' सकलकर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रकारम् 'अविसंधि' प्रवाहेणाव्यवच्छिन्नं 'सव्वदुक्खप्पहीणमग्गे' सकलाशर्मक्षयोपायः 'एत्थं ठिया जीवा सिज्झति बुज्झंति मुच्चंति परिनिव्वायंति'त्ति
---
'अहीवेगंतदिडीए' अहेरिव एकोऽन्तो निश्चयो यस्याः सा (एकान्ता सा) दृष्टि:बुद्धिर्यस्मिन् निर्ग्रन्थप्रवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम्, अहिपक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टि-ग् यस्य स एकान्तष्टिकः 'खुरो इव एगंतधाराए' त्ति एकान्ता–उत्सर्गलक्षणैकविभागाश्रया धारेव धारा-क्रिया यत्र तत्तथा, 'लोहमये' त्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुये'त्यादि, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, 'गंगे' त्यादि, गङ्गा वा - गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्था तया, प्रतिश्रोतोगमनेन गङ्गेव दुस्तरं प्रवचनमिति भावः, एवं समुद्रोपमं प्रवचनमपि, तिक्खं कमियव्वं 'ति यदेतत् प्रवचनं तत्तीक्ष्णं खङ्गादि क्रमितव्यं, यथा हि खङ्गादि क्रमितमशक्यमेवमशक्यं प्रवचनमनुपालयितुमितिभावः 'गरुयं लंबेयव्वं 'ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564