Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 506
________________ ५०३ शतकं-९, वर्गः-, उद्देशकः-३३ लातिकाश्चेति कलाकुशलसर्वकाललालिताः ताश्चताः सुखोचिताश्चेतिविग्रह-, मार्दवगुणयुक्तो निपुणो यो विनयोपचारस्तत्र पण्डितविचक्षणा–अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसियविप्पेक्खियगइविलासविट्ठियविसारयाओ' मञ्जुलं-कोमलंशब्दतः मितं-परिमितं मधुरं-अकठोरमर्थःतो यद्भणितं तत्तथा तच्च विहसितं च विप्रेक्षितं च गतिश्च विलासश्च-नेत्रविकारो गतिविलासो वा-विलसन्ती गति विस्थितंच-विशिष्टा स्थितिरितिद्वन्द्वः एतेषु विशारदा यास्तास्तथा, ‘अविकलकुलसीलसालिणीओ' अविकलकुलाः-ऋद्धिप-रिपूर्णकुलाः शीलशालिन्यश्च-शीलशोभिन्य इति विग्रहः । _ 'विसुद्धकुलवंससंताणतंतुवद्धणपगब्भवयभाविणीओ' विशुद्धकुलवंश एव सन्तानतन्तुः-विस्तरितन्तुस्तद्वर्द्धनेन-पुत्रोत्पादनद्वारेण तवृद्धौ प्रगल्भं-समर्थं यद्वयो-यौवनंतस्य भावः-सत्ता विद्यते यासांतास्तथा विसुद्धकुलवंससंताणतंतुवद्धणपगब्भुब्भवपभाविणीओ'त्ति पाठान्तरं तत्र च विशुद्धकुलवंशसन्तानतन्तुवर्द्धना ये प्रगल्भाः-प्रकृष्टगस्तेिषां य उद्भवःसम्भूतिस्तत्रयःप्रभावः-सामर्थ्यं स यासामस्तितास्तथा मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्मधारयः ‘अट्ठ तुज्झ गुणवल्लभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नकोउहल्लेत्ति, विषयेषु-शब्दादिषु विगत-व्यवच्छिन्नम्-अत्यन्तक्षीणकौतुहलं यस्य स तथा॥ माणुस्सगा कामभोगत्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि, ‘उच्चारे' त्यादि, उच्चारादिभ्यः समुद्भवोयेषांतेतथा 'अमणुनदुरूवमुत्त-पूयपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पुतिकपुरीषेण च पूर्णाश्चेति विग्रहः-, इह च दूरूपं-विरूपं पूतिकंच-कुथितं, 'मयगंधुस्सासअसुभनिस्सासउव्वेयणगा' मृतस्येव गन्धो यस्य स मृतगन्धि सचासावुच्छस मृतगन्ध्युच्छसस्तेनाशुभनिश्वासेन चोद्वेगजनकाउद्वेगकाणो जनस्य येते तथा उच्छ्वासश्च-मुखादिना वायुग्रहणं निश्वासस्तु-तन्निर्गमः 'वीभच्छ'त्ति जुगुप्सोत्पादकाः 'लहुस्सग'त्ति लघुस्वकाः-लघुस्वभावाः 'कलमलाहिवासदुक्खबहुजणसाहारणा' कलमलस्यशरीरसत्काशुभद्रव्यविशेषस्याधिवासेन–अवस्थानेनदुःखा-दुखरूपायये तेतथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः । _ 'परिकिलेसकिच्छदुक्खसज्झा' परिक्लेशेन-महामानसायासेन कृच्छ्रदुःखेन चगाढशरीरायासेन ये साध्यन्ते-वशीक्रियन्ते येते तथा 'कडुगफलविवागा' विपाकः पाकोऽपि स्यादतो शेष्यते-फलरूपो विपाकः फलविपाकः कटुकः फलविपाको येषां ते तथा 'चुडलिव्व'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमावहुवचनलोपो दृश्यः । 'इमेयतेजाया ! अजयपज्जयपिउपज्जयागए' इदंचतव पुत्र! आर्य-पितामहःप्रार्यकःपितुः पितामहः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितृणांयः पर्ययः-पर्यायः परिपाटिरित्यर्थः तेनागतंयत्तत्तथा विपुलधणकणग' इहयावत्करणादिदं दृश्यं-'रयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइए'त्ति तत्र 'विपुलधणे'ति प्रचुरं गवादि ‘कणग'त्ति दान्यं 'रयण'त्तिकतनादीनि मणि त्ति चन्द्रकान्ताद्याः मौक्तिकानि सङ्घाश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564