________________
५०२
भगवती अङ्गसूत्रं ९/-/३३/४६४
सावाह - 'एवं खलु' इत्यादि, एवं वक्ष्यमाणेन न्यायेन 'अनेगजाइजरामरणरोगसारिरमाणसएकामदुक्खवेयणवसणसओवद्दवाभिभूए' त्ति अनेकानि यानि जातिजरामरणरोगरूपाणि शारीराणि मानसिकानि च प्रकामं-अत्यर्थं दुःखानि तानि तथा तेषां यद्वेदनं, व्यसनानां च - चौर्यद्यूतादीनां यानि शतानि उपद्रवाश्च - राजचौर्यादिकृतास्तैरभिभूतो य स तथा, अत एव 'अधुवे 'त्ति न ध्रुवः–सूर्योदयवन्न प्रतिनियतकालेऽवश्यम्भावी 'अणितिए' त्ति इतिशब्दो नियतरूपोपदर्शनपरः ततश्चन विद्यत इति यत्रासावनितिकः - अविद्यमाननियतस्वरूप इत्यर्थः, ईश्वरादेरपि दारिद्यादिभावात्, ‘असासए’त्ति क्षणनश्वरत्वात्, अशाश्वतत्वमेवोपमानैर्दर्शयन्नाह - 'संज्ञे' त्यादि, किमुक्तं भवति ? इत्याह
‘अनिच्चे’त्ति अथवा प्राग् जीवितापेक्षयाऽनित्यत्वमुक्तमथ शरीरस्वरूपापेक्षया तदाह ‘अनिच्चे’ ‘सडणपडणविद्धंसणधम्मे' त्तिशटनं कुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्वादेः खड्गच्छेदादिना विध्वंसनं-क्षयः एत एव धर्मा यस्य स तथा 'पुव्विं वित्ति विवक्षितकालात्पूर्वं वा 'पच्छा वि' त्ति विवक्षितकालात्पश्चाद्वा ‘अवस्सविप्पजहियव्वे'त्ति अवश्यं 'विप्रजहातव्यः' त्याज्यः 'जे केसणं जाणइ 'त्ति अथ कोऽसौ जानात्यस्माकं, न कोऽपीत्यर्थ, 'केपुव्विं गमणयाए 'त्ति कः पूर्वं पित्रोः पुत्रस्य वाऽन्यतोगमनाय परलोक उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते, कः पूर्वं को वा पश्चान्प्रियत इत्यर्थः ।
'पविसिहरूवं' त्ति प्रविशिष्टरूपं 'लक्खणवंजणगुणोववेयं' लक्षणम् 'अस्थिष्वर्थः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥ १ ॥” इत्यादि, व्यञ्जनं-मषतिलकादिकं तयोर्यो गुणः - प्रशस्तत्वं तेनोपपेतं सङ्गतं यत्तत्तथा 'उत्तमबलवीरियसत्तजुत्तं' उत्तमैर्बलवीर्यसत्त्वैर्युक्तं यत्तत्तथा, तत्र बलं - शारीरः प्राणो वीर्यं - मासोऽवष्टम्भः सत्त्वं - चित्तविशेष एव यदाह - "सत्त्वमवैक्लव्यकरमध्यवसानकरं च अथवा उत्तमयोर्बलवीर्ययोर्यत्सत्वं-सत्ता तेन युक्तं यत्तत्था 'ससोहग्गगुणसमूसियं त्ति समौभाग्यं गुणसमुच्छ्रितं चेत्यर्थः ‘अभिजायमहक्खमं’ति अभिजातं - कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्म्मधारयः, अथवाऽभिजातानां मध्ये महत्-पूज्यं क्षमं - समर्थं च यत्तत्तथा, 'निरुवहयउदत्तलट्ठपंचिंदियपडुं ति निरुपहतानि - अविद्यमानवाताद्युपघातानि उदात्तानि - उत्तमवर्णादिगुणानि अत एव लष्टानिमनोहराणि पञ्चापीन्द्रियाणि पटूनि च - स्वविषयग्रहणदक्षाणि यत्र तत्तथा 'विविहवाहिसयसंनिकेयं'ति इह संनिकेतं –स्थानम् 'अट्ठियकट्टुट्ठियं' ति अस्थिकान्येव काष्ठानि काठिन्यसाधर्म्याततभ्यो यदुत्थितं तत्तथा ।
- 'छिराण्हारुजालओणद्धसंपिणद्धं' ति शिरा - नाड्यः ण्हारु' त्ति स्नायवस्तासां यज्जालंसमूहस्तेनोपद्धं संपिनद्धं–अत्यर्थं वेष्टितं यत्तत्तथा 'असुइकिलिट्ठे 'ति अशुचिना - अमेध्येन सङक्लिष्टं - दुष्टं यत्तत्तथा 'अनिट्ठवियसव्वकालसंठप्पयं' ति अनिष्ठापिता-असमापिता सर्वकालंसदा संस्थाप्यता-तत्कृत्यकरणं यस्य स तथा 'जराकुणिमजज्जरधरंव' जराकुणपश्च- जीर्णताप्रधानशबोजर्जरगृहंच-जीर्णगेहं समाहारद्वन्द्वाज्जराकुणपजर्जरगृहं, तदेवं किम्? इत्याह-'सडणे’त्यादि 'विपुले 'त्यादि, विपुलकुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः सर्वकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org