________________
५०१
-
शतकं-९, वर्गः-, उद्देशकः-३३
‘गयसिरीय'त्तिनिशोभा पसिढिलभूसणपडतखुन्नियसंचुन्नियधवलवलयपब्मट्ठउत्तरिजा' प्रशिथिलानि भूषणानि दुर्बलत्वाद्यस्याः सा तथापतन्ति-कृशीभूतबाहुत्वाद्विगलन्ति खुन्निय'त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि संचूर्णितानिच-भग्नानि कानिचिद्धवलयवलयानि-तथाविघकटकानि यस्याः सा तथा, प्रभृष्टं व्याकुलत्वादुत्तरीयं-वसनविशेषो यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, 'मुच्छावसणट्टचेयगरुइ'त्ति मूविशान्नष्टे चेतसि गुर्ची-अलघुशरीरा या सा तथा 'सुकुलमाला वा विकीर्णा केशा हस्तौ च यस्याः सा तथा ।'
'परसुनियत्तव्व चंपगलय'त्ति परशुच्छिन्नेव चम्पकलता 'निव्वत्तमहे व्व इंदलिट्ठ'त्ति निवृत्तोत्सवेवेन्द्रयष्टि: विमुक्कसंघिबंधण'त्तिश्लथीकृतसन्धिबन्धना ‘ससंभभोयत्तियाए तुरियंकंचणभिंगारमुहविणिग्गयसीयलजलविमलधारपरिसिंचमाणनिव्ववियगायलट्ठित्ति ससम्भ्रमं व्याकुलचित्ततया अपवर्तयति-क्षिपति या सा तथा तया ससम्भ्रमापवर्त्तिकया चेट्येति गम्ये त्वरितं-शीघ्रं काञ्चनभृङ्गारमुखविनिर्गताया शीतजलविमलधारा तयापरिषिच्यमाना निर्वापितास्वस्थीकृता गात्रयष्टिर्यस्याः सा तथा।
अथवा ससम्भ्रमापवर्तितया-ससम्भ्रमक्षिप्तया काञ्चनभृङ्गारमुखविनिर्गतशीतलजलविमलधारयेत्येवंव्याख्येयं, लुप्ततृतीयैकवचनदर्शनात्, ‘उक्खेवगतालियंटवीयणगजणियवाएणं ति उत्क्षेपकोवंशलादिमयो मुष्टिग्राह्यदण्डमध्यभागः तालवृन्तं-तालाभिधानवृक्षपत्रवृन्तं तत्पत्रच्छोट इत्यर्थः तदाकारं वा चर्ममयं वीजनकंतु-वंशादिमयमेवान्तग्राह्यदण्ड एतैर्जनितो यो वातः स तथा तेन ‘सफुसिएणं'सोदकबिन्दुना 'रोयमाणी' अश्रुविमोचनात् ‘कंदमाणी' महाध्वनिकरणात् ‘सोयमाणी' मनसा शोचनात् ‘विलवमाणी' आर्तवचनकरणात् । ___'इट्टे'इत्यादि पूर्ववत् 'थेजेत्तिस्थैर्यगुणयोगात्स्थैर्य वेसासिए'त्ति विश्वासस्थानं 'संमए'त्ति संमतस्तत्कृतकार्याणां संमतत्वात् ‘बहुमए'त्ति बहुमतः-बहुष्वपि कार्येषु बहुवा-अनल्पतयाऽस्तोकतयामतोबहुमतः ‘अनुमए'त्ति कार्यव्याघातस्य पश्चादपिमतोऽनुमतः ‘भंडकरण्डगसमाणे' भाण्डं-आभरणं करण्डकः-तद्भाजनं तत्समानस्तस्यादेयत्वात् ‘रयणे'त्ति रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रजक इत्यर्थः ‘रयणभूए'त्ति चिन्तारत्नादिविकल्पः 'जीविऊसविए'त्ति जीवितमुत्सूते-प्रसूत इति जीवितोत्सवः स एव जीवितोत्सविकः जीवितविषये वा उत्सवो-महः स इव यः स जीवितोत्सविकः जीवितोच्छसिक इति पाठान्तरं 'हिययाणंदिजणणे' मनःसमृद्धिकारकः 'उंबरे त्यादि, उदम्बरपुष्पंह्यलभ्यं भवत्यतस्तेनोपमानं 'सवणयाएत्ति श्रवणतायै श्रोतुमित्यर्थः ।
"किमंगपुण'त्तिकिंपुनः अंगेत्यामन्त्रणे अच्छाहितावजाया!जावताव अम्हेजीवामो'त्ति, इत्यत्राऽऽस्वतावद् हेता! यावद्वयंजीवामइत्यैतावतैव विवक्षितसिद्धौयत्पुनस्तावच्छब्दस्योच्चारणं तद्भाषामात्रमेवेति 'वड्डियकुलवंसतंतुकजम्मि निरयवक्खे'त्ति 'वड्डिय'त्ति सप्तम्येकवचनलोपदर्शनाद्वर्द्धिते-पुत्रपौत्रादिभिवृद्धिमुपनीते कुलरूपो वंशो न वेणुरूपः कुलवंशः-सन्तानः स एव तन्तुर्दीघत्वसाधात कुलवंशतन्तुः स एव कार्य-कृत्यं कुलवंशतन्तुकार्यं तत्र, अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयस्तत्रसति निरवकाङ्क्षः निरपेक्षः सन् सकलप्रयोजनानाम्
'तहाविणंत'तितथैव नान्यथेत्यर्थः यदुक्तं अम्हेहिं कालगएहिं पव्वइहिसि' तदाश्रित्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org