Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४६६
भगवतीअङ्गसूत्रं ९/-/३१/४४७ 'सवेयए होज्जत्तिविभङ्गस्यावधिभावकालेनवेदक्षयोऽस्तीत्यसौ सवेद एव, नोइथिवेयए होज्जत्ति स्त्रिया एवंविधस्य व्यतिकरस्य स्वभावत् एवाभावात् 'पुरिसनपुंसगवेयए'त्ति वर्द्धितकत्वादित्वे नपुंसकः पुरुषनपुंसकः। ___'सकसाई होज्जत्ति विभङ्गावधिकाले कषायक्षयस्याभावाद्त ‘चउसुसंजलणकोहमाणमायालोभेसुहोज्जत्तिस ह्यवधिज्ञानतापरिणतविभङ्गज्ञानश्चरणंप्रतिपन्नः उक्तः, तस्यचतत्काले चरणयुक्तत्वात्सञ्चलना एव क्रोधादयो भवन्तीति । ____ 'पसत्थ'त्तिविभङ्गस्यावधिभावो हि नाप्रशस्ताध्यवसानस्य भवतीत्यत उक्तं-प्रशस्तान्यध्यवसायस्थानानीति । 'अनंतेहिंति 'अनन्तैः' अनन्तानागतकालभाविभिः “विसंजोएइत्ति विसंयोजयति, तत्राप्तियोग्यताया अपनोदादिति ।
'जाओऽविय'त्तियापिच 'नेरइयतिरिक्खजोणियमणुस्सदेवगतिनामाओ'त्तिएतदभिधानाः ‘उत्तरपयडीओ'त्ति नामकर्माभिधानाया मूलप्रकृतेरुत्तरभेदभूताः ‘तासिंचणं'ति तासां च नैरयिकगत्याधुत्तरप्रकृतीनां चशब्दादन्यासां च 'उवग्गहिए'त्ति औपग्रहिकान्-उपष्टम्भप्रयोजनान्अनन्तानुबन्धिनःक्रोधमानमायालोभान्क्षपयति, तथाऽप्रत्याख्यानादींश्च तथाविधानेव क्षपयतीति, ‘पंचविहं नाणावरणिज्ज़'ति मतिज्ञानावरणादिभेदात् 'नवविहं दंसणावरणिजति चक्षुर्दर्शनाद्या-वरणचतुष्कस्य निद्रापञ्चकस्य च मीलनानवविधत्वमस्य पंचविहं अंतराइयंति दानलाभ- भोगोपभोगवीर्यविशेषितत्वादिति पञ्चविधत्वमन्तरायस्य, तत्र क्षपयतीति सम्बन्धः किं कृत्वा? इत्यत आह
'तालमत्थकडंचणं मोहणिज्जंकटुत्तिमस्तकं-मस्तकशूची कृतं-छिन्नं यस्यासौ मस्तककृत्तः, तालश्चासौ मस्तककृत्तश्च तालमस्तककृत्तः,छान्दसत्वाच्चैवं निर्देशः, तालमस्तककृत्तइव यत्तत्तालमस्तककृत्तम्, अयमर्थः-छिन्नमस्तकतालकल्पंच मोहनीयं कृत्वा, यथा हि छिन्नमस्तकस्तालः क्षीणो भवति एवं मोहनीयं च क्षीणं कृत्वेति भावः, इदं चोक्तमोहनीयभेदशेषापेक्षया द्रष्टव्यमिति, अथवाऽथ कस्मादनन्तानुबन्ध्यादिस्वभावेतत्र क्षपितेसति ज्ञानावरणीयादिक्षपयत्येव? इति, अत आह
. 'तालमत्थे' त्यादि, तालमस्तकस्येव कृत्वं-क्रिया यस्य तत्तालमस्तककृत्वं तदेवंविधंच मोहनीयं 'कटु'त्ति इतिशब्दस्येह गम्यमानत्वादितिकृत्वा-इतिहेतोस्तत्र क्षपिते ज्ञानावरणीयादि क्षपयत्येवेति, तालमस्तमोहनीययोश्च क्रियासाधर्ममेव, यथा हि तालमस्तकविनाशक्रियाऽवश्यम्भावितालविनाशा एवं मोहनीयकर्मविनाशक्रियाऽप्यवश्यम्भाविशेषकर्मविनाशेति, आहच॥१॥ "मस्तकसूचिविनाशे तालस्य यथा ध्रुवो भवति नाशः।
___ तद्वत्कर्मविनासोऽपि मोहनीयक्षये नित्यम् ॥" __ततश्च कर्मरजोविकरणकरं-तद्विक्षेपकम् अपूर्वकरणम्-असहशाध्यवसायविशेषमनुप्रविष्टस्य, अनन्तंविषयानन्त्यात् अनुत्तरंसर्वोत्तमत्वानिव्यार्घातं कटकुट्यादिभिरप्रतिहननात् निरावरणं सर्वथा स्वावरणक्षयात् कृत्स्नं सकलार्थःग्राहकत्वात् प्रतिपूर्ण सकलस्वांशयुक्ततयोत्पन्नत्वात् केवलवरज्ञानदर्शनं केवलमभिधानतो वरं ज्ञानान्तरापेक्षया ज्ञानं च दर्शनं च
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564