Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-९, वर्गः-, उद्देशकः-३२
४८७ पुच्छा जाव उववजंति, से केणडेणं भंते ! एवं वुच्चइ जाव उववजंति ?, गंगेया ! कम्मोदएणं कम्मगुरुयत्ताए कम्मभारियत्ताए कम्मगुरुसंभारियत्ताए सुभासुभाणं कम्माणं उदएणंसुभासुभाणं कम्माणं विवागेणं सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववजंति नो असयं पुढविकाइया जाव उववजंति, से तेणटेणं जाव उववजंति ।
एवंजाव मणुस्सा, वाणमंतरजोइसिया वेमाणिया जहा असुरकुमारा, से तेणटेणं गंगेया एवं वुच्चइ सयं वैमाणिया जाव उववजंति नो असयं जाव उववजंति ।
वृ. 'संतरं भंते !' इत्यादि, अथ नारकादीनामुत्पादातेः सान्तरादित्वं प्रवेशनकात्पूर्व निरूपितमेवेतिकिं पुनस्तनिरूप्यते? इति, अत्रोच्यते,पूर्वनारकादीनांप्रत्येकमुत्पादस्यसान्तरत्वादि निरूपितं, तथैवोद्वर्त्तनायाः, इह तु पुनारकादिसर्वजीवभेदानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तन्निरूप्यत इति।।अथनारकादीनामेव प्रकारान्तरेणोत्पादोद्वर्त्तने निरपयन्नाह
____ 'सओभंते' ! इत्यादि, तत्रच 'सओनेरइयाउववजंति'त्ति “सन्तः' विद्यमानाद्रव्यार्थःतया, नहि सर्वथैवासत् किञ्चिदुत्पद्यतेस असत्त्वादेव खरविषाणवत्, सत्त्वं च तेषां जीवद्रव्यापेक्षया नारकपर्यायापेक्षयावा, तथाहि-भाविनारकपर्यायापेक्षया द्रव्यतो नारकाः सन्तोनारका उत्पद्यन्ते, नारकायुष्कोदयाद्वाभावनारका एव नारकत्वेनोत्पद्यन्तइति।अथवा 'सओ'त्तिविभक्तिपरिणामात् सत्सुप्रागुत्पन्नेष्वन्येसमुत्पद्यन्तेनासत्सु, लोकस्य शाश्वतत्वेन नारकादीनां सर्वदैव सद्भावादिति। ___ 'सेनूनं भंते! गंगेया'इत्यादि, अनेन च तत्सिद्धान्तेनैव स्वमतं पोषितं, यतः पार्वेनार्हता शाश्वतो लोक उक्तोऽतो लोकस्य शाश्वतत्वात्सन्त एव सत्स्वेव वा नरकादय उत्पद्यन्ते च्यवन्ते चेति साध्वेवोच्यत इति। ___अथ गाङ्गेयो भगवतोऽतिशायिनी ज्ञानसम्पदं सम्भावयन् विकल्पयन्नाह-‘सयं भंते !' इत्यादि, स्वयमात्मना लिङ्गानपेक्षमित्यर्थः ‘एवं'ति वक्ष्यमाणप्रकारं वस्तु ‘असयं'ति अस्वयं परतोलिङ्गत इत्यर्थः, तथा असोच्च'त्ति अश्रुत्वाऽऽगमानपेक्षम् एतेवं'तिएतदेवमित्यर्थः 'सोच'त्ति पुरुषान्तरवचनं श्रुत्वाऽऽगमतइत्यर्थः ‘सयंएतेवं जाणामित्तिस्वयमेतदेवंजानामि, परमार्थिःकप्रत्यक्षसाक्षात्कृतसमस्तवस्तुस्तोमस्वभावत्वान्मम ‘सयं नेरइया नेरइएसु उववजंति'त्ति स्वयमेव नारका उत्पद्यन्ते नास्वयं-नेश्वरपारतन्त्र्यादेः, यथा कैश्चिदुच्यते॥१॥ “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वगंवा श्वभ्रमेव वा ॥" इति ईश्वरस्य हि कालादिकारणकलापव्यतिरिक्तस्य युक्तिभिर्विचार्यमाणस्याघटनादिति, 'कम्मोदएणं ति कर्मणामुदितत्वेन, न च कर्मोदयमात्रेण नारकेषूत्पद्यन्ते, केवलिनामपि तस्य भावाद्, अत आह–'कम्मगुरुयत्ताए'त्ति कर्मणांगुरुकता कर्मगुरुकता तया ‘कम्मभारियत्ताए'त्ति भारोऽस्ति येषां तानि भारिकाणि तद्भावो भारिकता कर्मणां भारिकता कर्मभारिकता तया चेत्यर्थः, तथा महदपि किञ्चिदल्पभारं दृष्टं तथाविधभारमपिच किञ्चिदमहदित्यत आह-'कम्मगुरुसंभारियत्ताए'त्तिगुरोः सम्भारिकस्य चभावो गुरुसम्भारिता, गुरुता सम्भारिकताचेत्यर्थः, कर्मणां गुसम्भारिकता कर्मगुरुसम्भारिकतातया, अतिप्रकर्षावस्थयेत्यर्थः, एतच्चत्रयंशुभकम्मपिक्षयाऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564