Book Title: Agam Suttani Satikam Part 05 Bhagvati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
शतकं-८, वर्गः, उद्देशकः-९
४२७ 'उद्धेसेणं बावीस मित्यादि भावितमेवेति, 'देसबंधो जेसिं नत्थी' त्यादि, अयमर्थःअप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लकभवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयोजघन्यत औदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति, ‘उक्कोसेणंजाजस्से' त्यादि तत्रापांवर्षसहस्राणि सप्तोत्कर्षतः स्थिति, तेजसामहोरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश द्वीन्द्रियाणां द्वादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशदहोरात्राणिचतुरिन्द्रियाणांषण्मासाः, तत एषांसर्बन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति _ 'जेसिं पुणे'त्यादि, तेचवायवः पञ्चेन्द्रियतिर्यचो मनुष्याश्च, एषांजघन्येन देशबन्ध एकं समयं, भावना च प्रागिव, 'उक्कोसेण मित्यादि तत्र वायूनां त्रीनि वर्षसहानि उत्कर्षतः स्थिति, पञ्चेन्द्रियतिरश्चांमनुष्याणांच पल्योपमत्रयम्, इयंच स्थिति सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशबन्धस्थितौ लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां तामाह-'जाव मणुस्साण'मित्यादि।
उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरंनिरूपयन्नाह- 'ओरालिए'त्यादिस सर्वबन्धान्तरं जघन्यत) क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयविग्रहेणौदारिकशरीररिष्वागतस्तत्र द्वौसमयावनाहारकस्तृतीयसमये सर्वबन्धकः क्षुल्लकभवंचस्थित्वामृतओदारिकशरीररिष्वेवोत्पन्नस्तत्रच प्रथमसमये सर्वबन्धकः, एवंच सर्वबन्थस्य सर्वबन्धकः क्षुल्लकभवंच स्थित्वामृतओदारिकशरीरिष्वेवोत्पन्नस्तत्रचप्रथमसमयेसर्वबन्धकः, एवंच सर्वबन्धस्यसर्वबन्धस्य चान्तरंक्षुल्लकभवो विग्रहगतसमयत्रयोनः, उक्कोसेण मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमानि पूर्वकोटेः समयाभ्यधिकानि सर्वबन्धान्तरं भवतीति, कथं?, मनुष्यादिष्वविग्रहेणागतस्तत्रच प्रथमसमय एव सर्वबन्धको भूत्वापूर्वकोटिंच स्थित्वा त्रयशिंत्सागरोपमस्थितिरिकः सर्वार्थःसिद्धकोवाभूत्वात्रिसमयेन विग्रहेणौदारिकशरीरीसंपन्नस्तत्रचविग्रहस्यद्वौ समया-वनाहारकस्तृतीये चसमयेसर्वबन्धकः,औदारिकशरीरस्यैवच यौ तौ द्वावनाहारसमयौ तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततश्च पूर्णा पूर्वकोटी जाता एकश्च समयोऽतिरिक्तः, एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोक्तमानं भवतीति।
_ 'देसबंधंतर'मित्यादि, देशबन्धान्तरंजघन्येनैकं समयं, कथं?, देशबन्धको मृतः सन्नविग्रहेणैवोत्पन्नस्तत्र च प्रथम एव समये सर्बन्धको द्वितीयादिषु च समयेषु देशबन्धकः संपन्नः, तदेवंदेशबन्धस्यदेशबन्धस्यचान्तरंजघन्यत एकःसमयः सर्वबन्धसम्बन्धीति। 'उक्कोसेणमित्यादि, उत्कृष्टस्त्रतयस्त्रिंशत्सागरोपमानि त्रिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरंभवतीति, कथं देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थःसिद्धादौ, ततश्च च्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपन्नस्तत्रच विग्रहस्यसमयद्वयेऽनाहारकस्तृतीयेचसमये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तरालं देशबन्धस्य देशबन्धस्य च यथोक्तं भवतीति ।
__ औदारिकबन्धस्य सामान्यतोऽन्तरमुक्तमथ विशेषतस्तस्य तदाह-एगिदिए'त्यादि, एकेन्द्रियस्यौदारिकसर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं ?, त्रिसमयेन विग्रहेणपृथिव्यादिष्वागतस्तत्रच विग्रहस्य समयद्वयमनाहारकस्तृतीयेचसमये सर्वबन्धकस्ततः क्षुल्लकं भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा सर्वबन्धयोर्यथोक्तमन्तरं भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564