Book Title: Acharang Sutram Author(s): Devchandrasagarsuri Publisher: Vardhaman Jain Agam Tirth View full book textPage 9
________________ । अर्हम् ॥ पञ्चमगणभृत्श्रीसुधर्मास्वामिविरचितं श्रुतकेवली श्रीभद्रबाहुस्वामि-दृब्धनियुक्तियुतंसुरिपुरंदर श्रीशीलाङ्काचार्यविहित-विवरणसमन्वितं ॥ श्रीआचाराङ्ग सूत्रम् ॥ ॐ नम: सर्वज्ञाय ।। जयति समस्तवस्तु-पर्याय-विचारापास्ततीर्थिकं, विहितैकैकतीर्थ-नयवाद-समूह-वशात्प्रतिष्ठितम् । बहु विधभङ्गि-सिद्ध सिद्धान्त -विधू नित - मलमलीमसं, तीर्थमनादिनिधनगत-मनुपममादिनतं जिनेश्वरैः ।।१।। (स्कन्दकच्छन्द.) आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः । तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः ॥२॥ शस्त्रपरिज्ञा-विवरण-मतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थं गृह्णाम्यहमञ्जसा सारम् ।।३। इह हि रागद्वेषमोहाद्यभिभूतेन सर्वेणापि संसारिजन्तुना शारीरमानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेय-पदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेकमृते, विशिष्टविवेकश्च न प्राप्ताऽशेषातिशय-कलापाप्तोपदेशमन्तरेण, आप्तश्च रागद्वेषमोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, स चाहत एव, अत: प्रारभ्यतेऽर्हद्वचनानुयोगः, स च चतुर्धा, तद्यथा- धर्मकथानुयोगो, गणितानुयोगो, द्रव्यानुयोगश्चरणकरणानुयोगश्चेति, तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयाग: सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोग: पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाचाराङ्गादिकः, स च प्रधानतमः शेषाणां तदर्थत्वात्, तदुक्तम् चरणपडिवत्तिहेडं जेणियरे तिण्णि अणुयोग" 'त्ति तथा “चरणपडिवत्तिहेउं धम्मकहाकालदिक्खमादीया । दविए दसणसोही दंसणसुद्धस्स चरणं तु ॥१॥ (चरणप्रतिपत्तिहेतवो येनेत्तरे त्रयोऽनुयोगाः । चरणप्रतिपत्तिहेतवो धर्मकथाकालदीक्षादिकाः । द्रव्ये श्री आचारांग सूत्रम् (००८)Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 146