Book Title: Acharang Sutram
Author(s): Devchandrasagarsuri
Publisher: Vardhaman Jain Agam Tirth
View full book text
________________
दर्शनशुद्धिदर्शनशुद्धस्य चरणं तु ॥१॥) गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि, अतस्तत्प्रतिपादकस्या-चाराङ्गस्यानुयोग: समारभ्यते, स च परमपदप्राप्तिहेतुत्वात्सविघ्नः, तदुक्तम्- “श्रेयांसि बहुविघ्नानि, भवन्ति महातामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥१॥” तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयं, तच्चादिमध्यावसानभेदात्त्रिधा, तत्रादि-मङ्गलम्, 'सूयं मे आउसंतेणं भगवया एवमक्खाय'मित्यादि, अत्र च भगवत्कथितकथनं भगवद्वचनानुवादो मङ्गलम् ; अथवा श्रुतमिति श्रुतज्ञानं, तच्च नन्द्यन्त:पातित्वान्मङ्गलमिति, एतच्चाविघ्नेना-भिलषितशास्त्रार्थपारगमनकारणं, मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्रं ‘से जहा केवि हरए पडिपुण्णे चिट्ठइ समंसि भोम्मे उवसन्तरए सारक्खमाणे' इत्यादि, अत्र च हृदगुणैराचार्य्यगुणोत्कीर्त्तनम्, आचार्याश्च पञ्चनमस्कारान्त: पातित्वान्मङ्गलमिति, एतच्चाभिलषितशास्त्रार्थस्थिरी-करणार्थम्, अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम् ‘अभिनिव्वुडे अमाई आवकहाए भगवं समियासी' अत्राभिनिवृतगहणं संसारमहातरु-कन्दोच्छेद्यऽविप्रतिपत्त्या ध्यानकारित्वान्मङ्गलमिति, एतच्च शिष्य (प्रतिशिस्येति) प्रशिष्यसन्तानाव्यवच्छेदार्थमिति, अध्ययनगतसूत्रमङ्गलत्वप्रतिपादनेनैवाध्ययनानामपि मङ्गलत्वमुक्तमेवेति न प्रतन्यते, सर्वमेव वा शास्त्रं मङ्गलं, ज्ञानरूपत्वात्, ज्ञानस्य च निर्जरार्थत्वात्, निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः, यदुक्तम्- “जं अन्नानि कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ उस्सासमित्तेणं ॥१॥” (यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छवासमात्रेण ॥१॥) मङ्गल-शब्दनिरुक्तं च मां गालयत्यपनयति भवादिति मङ्गलं, मा भूगलो विघ्नो गालो वा नाश: शास्त्रस्येति मङ्गलमित्यादि, शेष त्वाक्षेपपरिहारादिकमन्यतोऽव-सेयमिति ।
साम्प्रतमाचारानुयोग: प्रारभ्यते- आचारस्यानुयोगार्थकथनमाचा
श्री आचारांग सूत्रम्
(००९)

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 146